________________
४६० ]
स्वोपज्ञोणादिगणसूत्र विवरणम्
[ सूत्र-८५१-८५९
काच्छीङो डेरूः ॥ ८५१ ॥
कपूर्वात् शीङक् स्वप्ने, इत्यस्माद् डि एरू: प्रत्ययो भवति । कशेरू :- कन्दविशेषः, वीरुच्च ।। ८५१ ॥
दिव ऋः || ८५२ ॥
दिवृच् क्रीडादौ, इत्यस्माद् ऋः प्रत्ययो भवति । देवा देवरः, पितृव्यस्त्री, अग्निश्च ।। ८५२ ।।
सोरसेः ॥ ८५३ ॥
सुपूर्वादसूच् क्षेपणे, इत्यस्माद् ऋः प्रत्ययो भवति । स्वसा - भगिनी ।। ८५३ ॥
नियो डित् ॥ ८५४ ॥
ग् प्रापणे, इत्यस्माद् डिद् ऋः प्रत्ययो भवति । ना - पुरुषः ।। ८५४ ।।
सव्यात् स्थः ॥ ८५५ ॥
सव्यपूर्वात् ष्ठां गतिनिवृत्तौ इत्यस्माद् डिद् ऋः प्रत्ययो भवति । सव्येष्ठासारथिः ।। ८५५ ॥
यति - ननन्दिभ्यां दीर्घश्च ॥ ८५६ ॥
प्रयत्ने,
यतेर्नञ्पूर्वाद् नन्देश्च ऋः प्रत्ययो भवति, दीर्घश्चानयोर्भवति । यतै याता - पतिभ्रातृभगिनी, देवरभार्या, ज्येष्ठभार्या च । टुनदु समृद्धी, ननान्दा भर्तृभगिनी । नखादित्वान्नञोऽन्न भवति ।। ८५६ ।।
शासि - शंसिनी -रु-क्षु-ह-भृ-धृ-मन्यादिभ्यस्तुः ॥ ८५७ ॥
एभ्यः तृः प्रत्ययो भवति । शासूक् अनुशिष्टो, शास्ता - गुरुः, राजा च ; प्रशास्ताराजा, ऋत्विक् च । शंसू स्तुतौ च शंस्ता - स्तौता । णींग् प्रापणे, नेता - सारथिः । रुक् शब्दे, रोता-मेघः । टुक्षुक् शब्दे, श्रोता - मुसलम् । हृग् हरणे, हर्ता-चौरः । टुडुभृ ंग्क् पोषणे च भर्ता - पतिः । धङत् अवध्वंसने, घर्ता-धर्मः । मनिच् ज्ञाने, मन्ता-विद्वान्, प्रजापतिश्च । आदिग्रहणादुपद्रष्टा ऋत्विक्, विशस्ता घातकः इत्यादयोऽपि ।। ८५७ ।।
जनकः ।। ८५८ ॥
पातेरिश्च ॥ ८५८ ॥
पांकू रक्षणे, इत्यस्मात् तृः प्रत्ययो भवति, धातोश्चेकारोऽन्तादेशो भवति । पिता
मानिभ्राजेलु क् च ॥ ८५६ ॥
आभ्यां तृः प्रत्ययो भवति, लुक् चान्तस्य भवति । मानि पूजायाम्, माता- जननी । भ्राजि दीप्तों, भ्राता - सोदर्यः ।। ८५६ ॥