________________
सूत्र-८४२-८५० ]
स्वोपज्ञोणादिगणसूत्र विवरणम्
[ ४५६
धृषदिधिष-दिधीषौ च ।। ८४२ ॥
निधृषाट् प्रागल्भ्ये, इत्यस्माद् ऊः प्रत्ययो भवति, दिधिष् दिधीष् इत्यादेशौ चास्य भवतः। दिधिषूः-ज्यायस्याः पूर्वपरिणीता, पुंश्चली च । दिघीषुः ऊढायाः, कनिष्ठाया अनूढा, ज्येष्ठा, पुनर्भूः, आहुतिश्च ।। ८४२ ॥
भ्रमि-गमि-तनिभ्यो डित् ॥ ८४३॥
एभ्यो डिद् ऊः प्रत्ययो भवति । भ्रमूच अनवस्थाने, भ्रः-अक्ष्णोरुपरि रोमराजिः । गम्लु गतो, अग्रेगच्छत्यग्रेगूः-पुरस्सरः । तनूयो विस्तारे, कुत्सितं तन्यते कुतूः-चर्ममयमावपनम् ॥ ८४३ ।।
नृति-शृधि-रुषि-कुहिभ्यः कित् ॥ ८४४ ॥
एभ्य: किद् ऊ: प्रत्ययो भवति । नृतैच् नर्तने, नृतूः- नर्तकः, कृमिजातिः, प्लवः, प्रतिकृतिश्च । शृधूङ शब्दकुत्सायाम् , शृधूः-शर्धनः, कृमिजातिः, अपानं, बलिश्च दानवः । रुषंच रोषे, रुष:-भर्त्सकः । कुहणि विस्मापने, कुहूः- अमावास्या ।। ८४४ ॥
तृ-खडिभ्यां डूः ॥ ८४५॥
आभ्यां डूः प्रत्ययो भवति । तु प्लवनतरणयोः, तई :-द्रोणी, प्लवः, परिवेषणभाण्डं च । खडण् भेदे, खड्डू:-बालानामुपकरणम् , स्त्रीणां पादाङ गुष्ठाभरणं च ॥८५४।।
तृ-दभ्यां दूः ॥ ८४६॥
आभ्यां दूः प्रत्ययो भवति । तृ प्लवनतरणयोः, तर्दू :-द: । दृश् विदारणे, दर्दू :कुष्ठभेदः ।। ८४६ ॥
काम-जनिभ्यां बूः ॥ ८४७॥
आभ्यां बूः प्रत्ययो भवति । कमूङ कान्तौ, कम्बू:-भूषणम् , आदर्शत्सरुः, कुरुविन्दश्च । जनैचि प्रादुर्भावे, जम्बूः-वृक्षविशेषः ।। ८४७ ॥
शकेरन्धः ॥८४८॥
शक्लृट् शक्ती, इत्यस्मादन्धूः प्रत्ययो भवति । शकन्धूः-वनस्पतिः, देवताविशेषश्च ।।८४८॥
कृगः कादिः॥८४६ ।।
डुकृग् करणे, इत्यस्मात् ककारादिरन्धूः प्रत्ययो भवति । कर्कन्धूः-बदरी, व्रणं, यवलाजाः, मधुपर्कः, विष्टम्भश्च ।। ८४६ ।।
योरागूः ।। ८५० ॥ युक् मिश्रणे, इत्यस्माद् आगूः प्रत्ययो भवति । यवागूः-द्रवौदनः ।। ८५० ।।