________________
सूत्र-५२७-५३५ ]
स्वपज्ञोणादिगणसूत्रविवरणम्
[ ४१९
र्भावे, जनित्वः-लोकः, माता-पितरौ, द्यावा-पृथिव्यौ च । जनित्वं-कुलम् । एधि वृद्धौ, एधित्वः-अग्निः, समुद्रः, शैलश्च पां पाने, पेत्वम्-तप्तभूमिप्रदेशः, अमृतं, नेत्रं, सुखं, मानं च ।। ५२६ ।।
पा-दा-वम्यमिभ्यः शः॥ ५२७ ॥
एभ्यः शः प्रत्ययो भवति । पांक रक्षणे, पाशः-बन्धनम् । डुदांग्क् दाने, दाशःकैवर्तः । टुवम् उगिरणे, वंश:-वेणुः । अम गतौ, अंशः-भागः ।। ५२७ ।।
कृ-वृ-भृ-वनिभ्यः कित् ॥ ५२८॥
एभ्यः कित् शः प्रत्ययो भवति । डुकृग् करणे, कृशः-तनुः। वृन्ट् वरणे, वृशंशृङ्गबेरम् , मूलकं, लशुनं च । टुडुभृगक पोषणे च, भृशम् - अत्यर्थम् । वन भक्तौ, वशःआयत्तः ।। ५२८ ॥
कोर्वा ॥ ५२६ ॥
कुङ शब्दे, इत्यस्मात् शः प्रत्ययो भवति, स च किद्वा भवति । कुश:-दर्भः । कोशः-सारम् , कुड्मलं च ।। ५२६ ।।
क्लिशः के च ।। ५३०॥
क्लिशौश् विबाधने, इत्यस्मात् शः प्रत्ययो भवत्यस्य च के इत्यादेशो भवति । केशाः मूर्धजाः ।। ५३० ।।
उरेरशक् ॥ ५३१ ॥ उर गतौ इत्यस्मात् , सौत्राद् अशक् प्रत्ययो भवति । उरशः ऋषिः ।। ५३१ ।। कलेष्टित् ॥ ५३२ ॥
कलि शब्द-संख्यानयोः, इत्यस्मात् टिद् अशक् प्रत्ययो भवति । कलश:- कुम्भः । कलशी दधिमन्थन भाजनम् ।। ५३२ ।।
पलेराशः ॥ ५३३ ॥ पल गतौ, इत्यस्माद् आशः प्रत्ययो भवति । पलाश:-ब्रह्मवृक्षः ।।५३३।। कनेरीश्चातः ।। ५३४ ॥
कनै दीप्त्यादौ, इत्यस्माद् आशः प्रत्ययो भवति, ईकारश्चाकारस्य भवति । कोनाश:-कर्षकः, वर्णसङ्करः, कदर्यश्च, तथा
लुब्धः कीनाशः स्यात् कीनाशोऽप्युच्यते कृतघ्नश्च ।
योऽश्नात्यामं मांसं स च कोनाशो यमश्चैव ।। ५३४ ।। कुलि-कनि-कणि-पलि-वडिभ्यः किशः॥ ५३५ ॥