________________
४१८ ]
स्वोपज्ञोणादिगंणसूत्रविवरणम्
[ सूत्र-५१९-५२६
च । कुडवः-मानम् , लत्वे कुलवः-स एव, नालीद्वयं च । कुरत् शब्दे, कुरवः-पुष्पवृक्षजातिः । मुरत् संवेष्टने, मुरव:-मानविशेषः, वाद्यजातिश्च । ष्ठां गतिनिवृत्ती, स्थवःअजावृषः ।। ५१८॥
कैरव-भैरव-मुतव-कारण्डवादीनवादयः ॥ ५१६ ॥
कैरवादयः शब्दा अवप्रत्ययान्ता निपात्यन्ते । कुम्भृगोः कैर-भैरावादेशौ । कैरवंकुमुदम् , भैरवः-भर्गः, भयानकश्च । मिनोते,त् च, मुतव:-मानविशेषः । कृगाऽण्डोऽन्तो वृद्धिश्च, कारण्डवः-जलपक्षी । आङ पूर्वाद् दीडो नोऽन्तश्च । आदीनवः-दोषः। आदिग्रहणात् कोद्रवः-कोटवादयोपि भवन्ति ॥ ५१९ ।।
शृणातेरावः ॥ ५२०॥ शश् हिंसायाम् , इत्यस्माद् आवः प्रत्ययो भवति । शराव:-मल्लकः ।। ५२० ।। प्रथेरिवट् पृथ् च ।। ५२१ ॥
प्रथिष् प्रख्याने, इत्यस्मादिवट्प्रत्ययो भवत्यस्य च पृथ् इत्यादेशो भवति । पृथिवीभूः ।। ५२१ ॥
पलि-सचेरिवः ।। ५२२ ॥
पलण् रक्षणे, षचि सेवने, इत्याभ्यामिवः प्रत्ययो भवति । पलिव:-गोप्ता। सचिवः-सहायः ।। ५२२ ।।
स्पृशेः श्वः पार च ॥ ५२३ ॥
स्पृशंत् संस्पर्श, इत्यस्मात् श्वः प्रत्ययो भवत्यस्य च पार् इत्यादेशो भवति । पाश्वंस्वाङ्गम् , समीपं च । पार्श्वः-भगवांस्तीर्थङ्करः ।। ५२३ ॥
कुडि-तुडथडेरुवः। ५२४ ॥
एभ्य उवः प्रत्ययो भवति । कुडत् बाल्ये च, कुडुवं-प्रसृतहस्तमानं च। तुडत् तोडने, तुडुवम् अपनेयद्रव्यम् । अड उद्यमे, अडुवः-प्लवः ।। ५२४ ॥
नी-हिण-ध्य-प्या-पा-दा-माभ्यस्त्वः ।। ५२५ ॥
एभ्यः त्वः प्रत्ययो भवति । णींग प्रापणे, नेत्वं-द्यावा-पृथिव्यौ, चन्द्रश्च । हंक दानादनयोः, होत्वं-यजमान , समुद्रश्च । इंण्क् गतौ, एत्वम्-गमनपरम् । ध्ये चिन्तायाम् , ध्यात्वं-ब्राह्मणः । प्यैङ् वृद्धो, प्यात्वं-ब्राह्मणः, समुद्रः, नेत्रं च । पां पाने, पात्वम्-पात्रम् । डुदांग्क दाने, दात्वः-आयुक्तः, यज्वा, यज्ञश्च । मांक माने, मात्वम्-प्रमेयद्रव्यम् ।।५२५।।
कृ-जन्येधि-पाभ्य इत्वः ॥ ५२६ ॥ एभ्यः इत्वः प्रत्ययो भवति । डुकृग् करणे, करित्वः-करणशीलः । जनैचि प्रादु.