________________
४०० ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[ सूत्र-४०६-४१२
कासारः-पल्वलम् । मृजौक् शुद्धौ, मार्जारः बिडालः। कञ्जिः सौत्रः, कजारः कुशूलजातिः, यूपः, व्यञ्जनं च । कलि शब्दसंख्यानयोः, कलारः-विषमरूपः। मलि धारणे, मलार:-अलसः। मलमिवारा तोदोऽस्येति वा मलारः। कचि बन्धने, कचार:-अपनेयः तृणबुसपांशुविकारः।। ४०५ ।।
त्रः कादिः॥४०६ ॥ तृ प्लवनतरणयोः, इत्यस्मात् ककारादिरारः प्रत्ययो भवति । तरि:- वृक्षः । ४०६। कृगो मादिश्च ॥ ४०७॥
करोतेर्मकारादिः ककारादिश्च आरः प्रत्ययो भवति । कर्मारः-लोहकारः । कर्कारः-वृक्षः ।।४०७।।
तुषि-कुठिभ्यां कित् ॥ ४०८ ॥
आभ्यां किद् आरः, प्रत्ययो भवति । तषंच्. तुष्टौ, तुषार:-हिमम् । कुठिः सौत्रः, कुठार:-परशुः ।। ४०८ ॥ :
कमेरत उच्च ॥ ४०६॥
कमूङ कान्तौ इत्यस्माद् आरः प्रत्ययो भवत्यकारस्य चोकारो भवति । कुमारःमहासेनः, अभ्रष्टः, बालश्च ।। ४०९ ।।
कनेः कोविद-कर्बुद-काश्चनाश्च ॥ ४१० ॥
कनै दीप्ती इत्यस्माद् आरः प्रत्ययो भवति, अस्य च कोविद कर्बुद काञ्चन इत्यादेशा भवन्ति । कोविदारः, कबुदारः, काञ्चनारश्च वृक्षविशेषाः ।। ४१० ॥
द्वार-शृङ्गार-भृङ्गार-कहार-कान्तार-केदार-खारडादयः ॥ ४११ ॥
एते आरप्रत्ययान्ता निपात्यन्ते । उम्भत् पूरणे द्वादेशश्च, द्वारं-द्वाः । श्रयतेस्तालव्यादिः शृङ्गश्च, शृङ्गार:-रसविशेषः, विदग्धता च । भृगो भृङग् च, भृङ्गारः-हस्तिमुखाकारगलन्तिका। कलेहश्च स्वरात् परः, कलारः-उत्पलविशेषः । कमेस्तोऽन्तो दीर्घश्च कान्तारं-अरण्यम् । कदेः सौत्रस्यात एच्च, केदारः-वप्रः । खनेडिच्च, खारी-चतुर्दोणम् । खारडिति डकारी ड्यर्थः । आदिग्रहणात् शिशुमारादयो भवन्ति ।। ४११ ।। .
मदि-मन्दि-चन्दि-पदि-खदि-सहि-वहि-कु-सुभ्य इरः॥ ४१२ ॥
एभ्य इरः प्रत्ययो भवति । मदैच् हर्षे, मदिरासुरा। मदुङ स्तुत्यादौ, मन्दिरंवेश्म, नगरं च । चद् दीप्त्याह्नादनयोः, चन्दिर:-चन्द्रमाः. हस्ती च.चन्दिरं-चन्द्रिकावत, जलं च । पदिच् गतो, पदिर:-मार्गः । खद हिंसायाम् , खदिर:-वृक्षविशेषः । पहि-मर्षणे, सहिरः-पर्वतः । वहीं प्रापणे, वहिरः-बलीवर्दः । कुक शब्दे, कविर:-अक्षिकोणः । सृगतो, लत्वे सलिलम्-जलम् ।। ४१२॥