________________
३९८ ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[ सूत्र-३९७-४०१
सुन्दि-मन्थि-मञ्जि-पञ्जि-पिञ्जि-कमि-समि-चमि-बमि-भ्रम्यमि-देवि-वासि-कास्यतिजीवि-बर्बि-कु-शु-दोररः ॥ ३६७ ॥
एभ्यः अरः प्रत्ययो भवति । ऋच्छत् इन्द्रियप्रलयमूर्तिभावयोः; ऋच्छर:-त्वरावान् , ऋच्छरा-वेश्या, कुलटा, त्वरा, अङ गुलिश्च । चट्ण् भेदे, चटरः तस्करः । वट वेष्टने, वटरः-मधुकण्डरा । कुटत् कौटिल्ये, कोटरं-छिद्रम् । बाहुलकाद् गुणः । कठ कृच्छ्रजीवने, कठरः-दरिद्रः। वठ स्थौल्ये, वठरः-मूर्खः, बृहदेहश्च । मठ मदनिवासयोश्च, मठर:-ऋषिः , अज्ञानी, गोत्रम् , अलसश्च । अड उद्यमे, अडरः-वृक्ष:-शीकृङ सेचने, शीकर:-जललवसेकः । शोभृङ कत्थने, शीभरः-हस्तिहस्तमुक्तो जललवसेकः । कदिः सौत्रः, कदरः-वृक्षविशेषः। बद स्थैर्ये, बदरी-फलवृक्षः। कदुङ् वैक्लव्ये, कन्दर:-गिरिगर्तः । मदुङ स्तुत्यादौ, मन्दरः- शैलः । सुन्दिः सौत्रः शोभायाम् , सुन्दर:-मनोज्ञः । मन्थश् विलोडने, मन्थर:-मन्दः, खर्वश्च । मञ्जि-पजी सौत्रौ, मञ्जरी-आम्रादिशाखा । गौरादित्वाद् डोः, पञ्जर:-शुकाद्यवरोधसद्म । पिजुण्-हिंसाबलदाननिकेतनेषु, पिञ्जर:पिशङ्गः । कमूङ कान्तौ, कमरः-मूर्खः, कार्मुकं कोमलः, चौरः, कान्तश्च । षम वैक्लव्ये, समर:-संग्रामः। चमू अदने, चमर:-आरण्यपशुः। टुवम् उगिरणे, वमर:-दुर्मेधाः । भ्रमुच् अनवस्थाने, भ्रमरः-षट्पदः । अम गतौ, अमरः-सुरः । देवृङ देवने, देवरःपत्यनुजः । वसं निवासे, णौ वासरः-दिवसः, कामः, अग्निः, प्रावृट् च । अन्ये वाशिच् शब्दे इत्यस्मादपि तालव्यान्तादिच्छन्ति, वाशरः-अग्निः, मेघः, दिवसश्च । कासृङ शब्दकुत्सायाम् , कासरः-महिषः। ऋक् गतौ अरर:-कपाटः, बुधः, भ्रमरः, गृहं, हरणं, शलाका च । जीव प्राणधारणे, जीवर:-दीर्घायुः । बबे गतौ, बर्बरः-म्लेच्छजाति:, बबरीकुञ्चिताः केशाः । कुंक शब्दे, कबरः-वर्णः, कबरी-वेणिः । शं गतौ, शबरः-म्लेच्छजातिः । शव गतौ इत्यस्येत्यन्ये । टुडेंट उपतापे, दवर:-गुणः ।। ३६७ ।। ।
अवेधच वा ॥ ३९८॥
अव रक्षणादौ, इत्यस्माद् अरः प्रत्ययो भवति-धकारश्चान्तादेशो वा भवति । अधरः-हीनः, उपरिभागस्य प्रतियोगी, दन्तच्छदश्च । अवरः-परप्रतियोगी ॥ ३९८ ॥ .
मृयुन्दि-पिठि-कुरि-कुहिभ्यः कित् ॥ ३६६ ॥
एभ्य अरः प्रत्ययः किद् भवति । मृदश् क्षोदे, मृदरः-व्याधिः, अतिकायः, क्षोदश्च । उन्दैप् क्लेदने, उदरं-जठरं, व्याधिश्च । पिठ हिंसासंक्लेशयोः, पिठरं-भाण्डम् । कुरत् शब्दे, कुररः-जलपक्षिजातिः । कुहणि विस्मापने, कुहरं-गम्भीरगर्तः ।। ३९९ ।।
शाखेरिदेतौ चातः ॥ ४०॥
शाख व्याप्ती, इत्यस्माद् अरः प्रत्ययो भवति, आकारस्य च इकार-एकारौ भवतः । शिखरम्-अग्रम् , शेखरः-आपीडः ।। ४०० ।।
शपेः च ॥ ४०१॥