________________
३७२ ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[ सूत्र-२१६-२२१
आभ्यां ऊतक् प्रत्ययो भवति । कुल बन्धुसंस्त्यानयोः, कुलूता-जनपदः मयि गतो, मयूता-वसतिः ।। २१५ ।।
जीवेमश्च ॥ २१६ ॥
जीव प्राणघारणे, इत्यस्माद् ऊतक् प्रत्ययो भवति, मश्चान्तादेशश्च । जीमूत:-मेधः, , गिरिश्च ॥ २१६ ॥
कबेरोतः प् च ॥ २१७ ॥
कबृङ वर्णे, इत्यस्माद् ओतः प्रत्ययो भवति, पश्चान्तादेशो भवति । कपोतःपक्षी, वर्णश्च ।।२१७॥
आस्फायेर्डित् ॥ २१८॥
आङपूर्वात् स्फायैङ वृद्धौ, इत्यस्मात् डिद् ओतः प्रत्ययो भवति । आस्फोतानाम औषधिः ॥ २१८॥
ज-विशिभ्यामन्तः ॥ २१६ ॥
आभ्यां अन्तः प्रत्ययो भवति । जृष्च् जरसि, जरन्तः-भूतग्रामः, वृद्धः, महिषश्च । विंशत् प्रवेशने, वेशन्तः-पल्वलम् । वल्लभः-अप्राप्तापवर्गः, आकाशं च ॥२१९।।
रुहि-नन्दि-जीवि-प्राणिभ्यष्टिदाशिषि ॥ २२० ॥ ... एभ्य आशिषि टिदन्तः प्रत्ययो भवति । रुहं जन्मनि, रोहतात् रोहन्त:-वृक्षः, रोहन्ती-औषधिः । टुनदु समृद्धौ, नन्दतात् नन्दन्तः-सखा, आनन्दश्च, नन्दन्ती सखी । जीव प्राणधारणे, जीवतात् जीवन्तः आयुष्मान् , जीवन्ती शाकः। अनक प्राणने, प्राण्यात् प्राणन्तः-वायुः, रसायनं च, प्राणन्ती स्त्री ।। २२० ।। तु-जि--भू--वदि-वहि-त्रसि--भास्यदि-साधि-मदि-गडि-गण्डि--मण्डि--नन्दि
रेविभ्यः ॥ २२१ ॥ एभ्यष्टिदन्तः प्रत्ययो भवति । आशिषीत्येके । त प्लवनतरणयोः, तरन्त:आदित्यः, भेकश्च, तरन्ती स्त्री। जि अभिभवे । जयन्त:-रथरेणुः, ध्वजः इन्द्रपुत्रः, जम्बूद्वीपपश्चिमद्वारम् , पश्चिमानुत्तरविमानं च, जयन्ती-उदयनपितृष्वसा । भू सत्तायाम्, भवन्तः-कालः, भवन्ती । वद व्यक्तायां वाचि, वदन्तः, वदन्ती। वहीं प्रापणे, वहन्त:रथः, अनड्वान् रथरेणु, वायुश्च, वहन्ती। वसं निवासे, वसन्तः-ऋतुः । भासि दीप्तौ, भासन्त:-सूर्यः, भासन्ती, ण्यन्तोऽपि, भासयन्तः-सूर्यः। अदंक भक्षणे, अदन्तः, अदन्ती। साधंट संसिद्धौ, साधन्तः-भिक्षुः, ण्यन्तोऽपि, साधयन्तः-भिक्षुः, साधयन्ती । मदैच् हर्षे, णौ, मदयन्तः, मदयन्ती-पुष्पगुल्मजातिः। गड सेचने, गडन्तः-जलदः, ण्यन्तोऽपि, गडयन्तः, गडयन्ती । गडु वदनैकदेशे, ण्यन्तः, गण्डयन्तः-मेषः । मडु भूषायाम् , ण्यन्तः, मण्डयन्तः