________________
सूत्र १७१-१७६ ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[ ३६५
पुण्डः भिन्नवर्णः। मुणत् प्रतिज्ञाने, मुण्ड:-परिवापितकेशः । शुनत् गतौ, शुण्डा-सुरा, हस्तिहस्तश्च । आदिग्रहणादन्येभ्योऽपि भवति ।। १७०॥
ऋ-सृ-त-व्या-लिह्यवि-चमि-वमि यमि-चुरि-कुहेरडः ।। १७१ ॥
एभ्यो अडः प्रत्ययो भवति । ऋक् गतौ, अरड:-तरुः । सृगती, सरड:-भुजपरिसर्पः, तरुश्च । तु प्लवनतरणयोः, तरड:-वृक्षजातिः । व्यग् संवरणे, व्याडः-दुःशीलः, हिंस्रः, पशुः, भुजगश्च । लिहींक आस्वादने, लेहड:-श्वा, चौर्यग्रासी च । अव रक्षणादौ, अवड:-क्षेत्रविशेषः । चमू अदने, चमडः पशुजातिः । टुवम् उगिरणे, वमड:-लूताजातिः । यमू उपरमे, यमड:-वनस्पतिः, युगलं च । चुरण स्तेये चोरड:-चोरः । कुहणि विस्मापने, कुहडः-उन्मत्तकः ॥ १७१ ।।
विहड-कहोड-कुरड-केरड-क्रोडाडयः ॥ १७२ ।।
एतेऽडप्रत्ययान्ता निपात्यन्ते । विपूर्वात् हन्तेरनो लुक च, विहड: शकुनिः मूढचित्तश्च । कर्हः प्रत्ययोऽकारस्य च ओकारः, कहोडः ऋषिः । करेगुणाभावश्च, कुरड:मार्जारः । किरतेः केर् च, केरड:-राज्ये राजा । कृगः कित् प्रत्ययोकारस्य च ओकारः । कोड:-किरिः, अङ्कश्च । आदिग्रणात् लहोडादयो भवन्ति ।। १७२।।
..
..
ज-कृ-तृ-श-स-भृ-वृभ्योऽण्डः ॥ १७३ ॥
एभ्योऽण्ड: प्रत्ययो भवति । जष्च् जरसि, जरण्डः-अतीतवयस्कः । कृत् . विक्षेपे, करण्ड -समुद्गः, समुद्रः, कृमिजातिश्च । तृ प्लवनतरणयोः, तरण्ड:-प्लवः, वायुश्च । शश । हिंसायाम् , शरण्डः-हिंस्रः, आयुधं च । सृगतो, सरंण्ड:-कृमिजातिः, इषीका, वायुः, भूतसंघातः, तृणसमवायश्च । टुडुइंग्क पोषणे च, भरण्ड:-भण्डजाति:, पक्षी च । वृग्ट् वरणे, वरण्डः-कुड्यम् , तृणकाष्ठादिभारश्च ।। १७३ ।।
पूगो गादिः ॥ १७४॥
पूग्श् पवने, इत्यस्मात् गकारादिः अण्डः प्रत्ययो भवति । पोगण्ड:-विकलाङ्गः युवा च ।। १७४ ।।
वनेस्त् च ॥ १७५ ॥
वन भक्ती, इत्यस्माद् अण्ड: प्रत्ययो भवति, तकारश्चान्तादेशो भवति । वतण्ड:ऋषिः ।। १७५ ।।
पिचण्डेरण्ड-खरण्डादयः ॥ १७६ ॥
एतेऽण्डप्रत्ययान्ता निपात्यन्ते । पिचेरगुणत्वं च । पिचण्डः-लघुलगुडः। ईरेर्गुणश्च एरण्ड:-पञ्चाङ गुलः । खाट भक्षणे, अन्त्यस्वरादेररादेशश्च, खरण्डः-सर्वत् कम् । आदि. ग्रहणात् कूष्माण्डशयण्डशयाण्डादयोऽपि भवन्ति ।। १७६ ।।