________________
३६४ ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[सूत्र-१६६-१७०
शमूच् उपशमे, इत्यस्मात् ठः प्रत्ययो भवति, लुक् चान्तस्य वा भवति । शठः धूर्तः शण्ठः स एव, नपुंसकं च ।। १६५ ।।
पष्ठेधिठादयः ॥ १६६ ॥
षष्ठादयः शब्दाष्ठप्रत्यत्यान्ता निपात्यन्ते । पुषः कित् ठः पषादेशश्च । पष्ठःप्रस्थः, पर्वतश्च । एधतेरिट च, एधिठं वनम् , एधिठः-गिरिसरिद्रहः । आदिशब्दादन्येऽपि ।।१६६ ।।
मृ-ज-श-कम्यमि-रमि-रपिभ्योऽठः ॥ १६७ ॥ - एभ्योऽठः प्रत्ययो भवति । मृत् प्राणत्यागे, मरठ.दध्यतिद्रवीभूतम्, कृमिजातिः, कण्ठः, प्राणश्च । जुष्च जरसि, जरठः-कठोरः । शृश् हिंसायाम् , शरटः-आयुधं, पापं, क्रीडनशीलश्च । कमूङ कान्तौ कमठ:-भिक्षाभाजनम्, कूर्मास्थि, कच्छपः. . मयूरः, वामनश्च । अम गती, अमठः-प्रकर्षगंतिः । रमि क्रीडायाम्, रमठ:-देशः, कृमिजातिः, क्रीडनशील: म्लेच्छः, देवश्च, विलातानाम् । रप व्यक्ते वचने रपठः-विद्वान्, मण्डूकश्च ॥ १६७॥
पञ्चमात् डः ॥ १६८॥ ..
पञ्चमान्तात् धातोर्ड: प्रत्ययो भवति । षन भक्ती, षण्ड:- वनं, वृषभश्च । बाहलकात् सत्वाभावः । भण शब्दे, भण्ड:-प्रहसनकरः, बन्दी च । चण शब्दे, चण्ड:- . क्रूरः। पणि व्यवहारस्तुत्योः पण्डः-शण्डः । गणण संख्याने, गण्ड:-पौरुषयुक्तः पुरुषः । मण शब्दे, मण्ड:-रश्मिः , अग्रम् , अन्नविकारश्च । वन भक्तो, वण्डः- अल्पशेफः, निश्चमांगशिश्नश्च । शमू दमूच् उपशमे, शण्ड:-उत्सृष्टः, पशुः ऋषिश्च । दण्ड:-वनस्पतिप्रतानः, राजशासनं, नालं, प्रहरणं च रमि क्रीडायाम् , रण्ड:-पुरुषः, रण्डा -स्त्री, रण्डम्अन्तःकरणम् । त्रयमपि स्वसम्बन्धिशून्यमेवमुच्यते । तमेस्तनेवा, तण्डः ऋषिः । वितण्डातृतीयकथा । ममेः, गण्ड:-कपोलः। भामि क्रोधे, भाण्डम्-उपस्करः ।। १६८।।
कण्यणि-खनिभ्यो णिद्वा ॥ १६६ ॥ .
एभ्यो डः प्रत्ययो भवति, स च णिद्वा भवति । कण अण शब्दे, काण्डः शरः, फलसंधातः, पर्व च कण्डं-भूषणं, पर्व च । आण्ड:-मुष्कः, अण्डः-स एव, योनिविशेषश्च खन्ग् अवदारणे, खाण्ड:-कालाश्रयो गुडः । खण्ड:-इक्षुविकारोऽन्यः । खण्डं-शकलम् ।१६६।
कु-गु-हु-नी-कुणि-तुणि-पुणि-मुणि-शुन्यादिभ्यः कित् ॥ १७० ॥
एभ्यः कित् डः प्रत्ययो भवति । कुङ शब्दे, कुड:-घटः, हलं च । गुङ : शब्दे, गुड:गोल: इक्षविकारश्च ,गुडा-सन्नाहः । हंक दानादानयोः, हड:-मुर्ख: मेषश्च । णींग प्रापणे. नीडं-कुलायः। कुणत् शब्दोपकरणयोः, कुण्डं-भाजनम् , जलाधारविशेषश्च । कुण्ड:भर्तरि जीवति जारेण जातः अपट्वीन्द्रियश्च । तुणत् कौटिल्ये, तुण्डम्-मुखम् । पुणत् शुभे,