________________
२८ ]
बृहवृत्ति-लघुन्याससंवलिते
[पाद-३, सूत्र-७७-७९
प्रकर्षेण कथयति वेत्यर्थः । उपयोगो-धर्मादौ विनियोगः, शतं प्रकुरुते, धर्मादौ विनियुङ्क्ते इत्यर्थः । एस्विति किम् ? कटं करोति । अफलवत्कर्बर्थ आरम्भः ।। ७६ ।।
न्या० स०-गन्धनावक्षे:-प्रोत्साहनादिकमिति-आदेरव्याबाधाऽनुज्ञोदय:, तथा च पठन्ति तथ्येनातथ्येन वा गुणेन प्रोत्साहनं गन्धनम् । भर्ल्सयतीति-राजग टुभ्राजि दोप्तावित्यत्र भ्राजिग्रहणेनात्मनेपदाऽनित्यत्वज्ञापनात् परस्मैपदमत्र ।
अधेः प्रसहने । ३. ३. ७७ ॥
अधेः परात् करोतेः प्रसहने वर्तमानात कर्तर्यात्मनेपदं भवति । प्रसहनं-पराभिभवः परेणापराजयो वा, तं हाधिचक्के तं प्रसेहे. तमभिभूतवान् तेन वा न पराजित इत्यर्थः । अथवा सहनं-क्षमा तितिक्षोपेक्षेति यावत , प्रकर्षेण सहनं-प्रसहनम् , तच्च द्विधा-शक्तस्याशक्तस्य च, "भवादृशाश्चेदधिकुर्वते परान् , 'समर्था अपि यापेक्षन्ते तदा' निराश्रया हन्त ! हता मनस्विता" [ किराते ], 'अधिचक्ने न यं हरिः' सोढुमशक्तः सन् तेन न्यक्कियते । प्रसहन इति किम् ? तमधिकरोति । अधेरिति किम् ? शत्रून् प्रकरोति ।। ७७ ॥
दीप्ति-ज्ञान-यत्न-विमत्युपसंभाषोपमन्त्रणे वदः ॥ ३. ३. ७८ ॥
दीप्त्यादिष्वर्थेषु गम्यमानेष वदतेः कर्तर्यात्मनेपदं भवति । दीप्तिर्भासनम् , सा च कर्तृ विशेषणं वा, वदनक्रियासहचारिणी धात्वर्थो वा, केवलैव वा धात्वर्थः । वदते विद्वान् स्याद्वादे सम्यग्ज्ञानादनाकुलकथानच्च विकसितमुखत्वाद् दीप्यमानो वदतीति, वा वदन दीप्यते-इति वा, दीप्यत एव वेत्यर्थः। ज्ञानमवबोधः, तच्च वदिक्रियाया हेतुर्वा, विर्षाय वा फलं वा, केवलमेव वा धात्वर्थः । वदते धीमांस्तत्त्वार्थे, ज्ञात्वा वदतीति वा; जानाति वदितुमिति वा, वदन् जानातीति वा, जानात्येवं वेत्यर्थः । यत्न उत्साहः, स च धात्वर्थस्य विषयो धात्वर्थः एव वा;श्रते वदते, तपसि वदते, तद्विषयमुत्साहं वाचाविष्करोति,तत्रोत्सहते इति वेत्यर्थः । नानामतिविमतिः, सा च धात्वर्थस्य हेतुः, धात्वर्थ एव वा; धर्मे विवदन्ते, विमतिपूर्वक विचित्रं भाषन्त इति वा, विविध मन्यन्त इति वेत्यर्थः । उपसंभाषोपसान्त्वनमुपालम्भो वा धात्वर्थ एवायम् ; कर्मकरानुपवदते, उपसान्त्वयति, उपलभते वेत्यर्थः । उपमन्त्रणं रहसि उपच्छन्दनम् , तदपि धात्वर्थ एव; कुलभार्यामुपवदते, परदारानुपवदते, रहस्युपलोभयतीत्यर्थः । दीप्त्यादिष्विति किम् ? यकिञ्चिद् वदति ।। ७८ ।।
न्या० स०-दीप्तिज्ञान:-उपच्छन्दनमिति-छन्दसोपचरति णिच् , उपच्छन्द्यते अनटि ।
व्यक्तवाचां सहोक्तौ ॥ ३. ३, ७६ ॥
व्यक्ता व्यक्ताक्षरा वाग् येषां ते व्यक्तवाच:, रूढया मनुष्यादय एवोच्यन्ते; तेषां सहोक्तौ-संभूयोच्चारणे वर्तमानाद् वदेः कर्तर्यात्मनेपदं भवति । संप्रवदन्ते ग्राम्याः, संप्रवदन्ते पिशाचाः, संभूय भाषन्त इत्यर्थः । व्यक्तवाचामिति किम् ? संप्रवदन्ति कुक्कुटाः,