________________
पाद-३, सूत्र-७५-७६ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः ।
[२७
र्थ्यात् भवति, यथा कुस्मि-चित्रक-महीङ-हणीङामनुबन्धो णिच-क्यन्-यगन्तसमुदायार्थ:विकुस्मयते, चित्रीयते, महीयते, हणीयते । अवयवे वा कृतं लिङ्ग समुदायस्य विशेषकं भवति, यद्येवं तितिक्षयति, जुगुप्सयति, मीमांसयतीत्यत्रापि प्राप्नोति ? नवं, अवयवे कृतं लिङ्ग तस्यैव समुदायस्य विशेषकं भवति यं समुदायं सोऽवयवो न व्यभिचरति, यथा-गो: सक्थनि कर्णे वा कृतं लिङ्ग-चिह्न गोरेव विशेषकं भवति, न गोमण्डलस्य, सन्नन्तं च समुदायं तिजादयोऽर्थविशेषेषु न व्यभिचरन्ति, णिगन्तं पुनर्व्यभिचरन्ति । ननु सन्नन्तमपि व्यभिचरन्ति-तेजति, गोपायति, मानयतीति ? नैवम् ,-अर्थविशेषेषु न व्यभिचार इत्युक्तत्वात् । “गूप-तिजो गर्हा-क्षान्तौ"[ ३. ४. ६ ] "शान्-दान-मान-बधानिशानाऽऽर्जवविचार-वैरूप्ये'' [ ३. ४. ६ ] इति हि वक्ष्यत इति ॥ ७४ ॥
न्या० स०-प्रागवत्-अनुबन्धादिनिमित्तमपीति-आदिपदात् 'गन्धनावक्षेप०' ३-२-७६ इत्यादिना कृगो धातोर्गंधनाद्यर्थनिमित्तं 'परानोः कृगः' ३-३-१०१ इत्यादि-विशेषविधानबाधितं सत , प्राग न दृष्टं तदपि नातिऽदिश्यते। सन्नन्तसमूदायाथमेवेति-अर्थ विशेषेषु इदमेव फलमन्यत्र त्वनाद्यपीति एवकारार्थः। अनुबन्धविधानमिति-न च वाच्यं क्षान्त्याद्यर्थाभावे अनुबन्धादात्मनेपदं भविष्यतीति, एषामर्थान्तरेपि त्यादयो नाभिधीयन्ते इति भणनात् 'इङितो व्यञ्जनाद्य०' ५-२-४४ इत्यादौ चरितार्थमिति चेत् ? न, तदा 'भूषाक्रोध०' ५-२-४२ इत्यादौ स्वरूपेण ग्रहणं कुर्यात् किं व्याप्तिपरेणानुबन्धेन। .
अवयवे वा कृतमिति-भवत्वनप्रत्ययेऽनुबन्धस्य चरितार्थत्वं तथाप्यात्मनेपदं भवती. त्यभ्युपगम्यमाह।
आमः कृगः॥ ३. ३. ७५ ॥
आमः परादनुप्रयुज्यमानात करोतेराम एव प्राग् यो धातुस्तस्मादिव कर्तर्यात्मनेपदं भवति । भवति न भवति चेति विधि-प्रतिषेधावतिदिश्येते, यथा-उशीनरवन्मद्रेषु यवाः सन्ति न सन्तीति । 'ईहांचके ईक्षांचक्रे' इत्यफलवत्यपि भवति, 'बिभयांचकार, जागरांचकार' इति फलवत्यपि न भवति । यत्र तु पूर्वस्मादुभयं तत्र फलवत्यफलवति चोभयं भवतिबिभरांचक्रे, बिमरांचकार; पाचयांचने, पाचयांचकार । कृग इति किम् ? करोतेरेव यथा स्यादिह मा भूव-ईक्षामास, ईक्षांबभूव ॥ ७५ ॥
गन्धनाऽवक्षेप-सेवा-साहस-प्रतियत्न-प्रकथनोपयोगे॥३. ३.७६॥
गन्धनादिष्वर्थेषु वर्तमानात करोतेः कर्तयात्मनेपदं भवति । गन्धनं-द्रोहाभिप्रायेण परदोषोद्घाटनम् , प्रोत्साहनादिकमन्ये । उत्कुरुते, उदाकुरुते माम् , अध्याकुरुते जिघांसुः, अपकत्रै कथयतीत्यर्थः । अवक्षेपणं अवक्षेपः, कुत्सनं भर्त्सनं वा, दुर्वृत्तानवकुरुते, कुत्सयतीत्यर्थः; श्येनो वतिकामपकुरुते, भसंयतीत्यर्थः । सेवा-अनुवृत्तिः, महामात्रानुपकुरुते, सेवते इत्यर्थः । साहसम्-प्रविमृश्य प्रवृत्तिः, परदारान् प्रकुरुते, विनिपातमविभाव्य तान् अभिगच्छतीत्यर्थः । प्रतियत्नः-सतो गुणान्तराधानम् , एधोदकस्योपस्कुरुते, तत्र गुणान्तरमादधातीत्यर्थः । प्रकथनं-कथनप्रारम्भः प्रकर्षेण कथनं वा, जनवादान् प्रकुरुते, कथयितुमारभते,