________________
सूत्र-३५-३९ ]
स्वोपज्ञोणादिगणसूत्रविवरणम् ।
[ ३४७
शाकजाति: । भदुङ सुख-कल्याणयोः, भन्दाक-शासनम् । वदुङ स्तुत्यभिवादनयोः, वन्दाकः-चीवरभिक्षुः । मदुङ स्तुत्यादिषु, मन्दाका-औषधी । णमं प्रवत्वे, नमाकाम्लेच्छजातिः । कुंङ शब्दे, कवाक:-पक्षी। टुइंट उपतापे, दवाकः-म्लेच्छः । पूङ पवने, पवाका-वात्या । मनिच् ज्ञाने, मनाका-हस्तिनी। खज मन्थे, खजाक:-आकरः, मन्थाः, दविः, आकाशं, बन्धकी, शरीरं पक्षी च ॥ ३४ ॥
शुभि-गृहि-विदि-पुलि-गुभ्यः कित् ॥ ३५ ॥
एभ्यः किदाक: प्रत्ययो भवति । शुभि दीप्तौ, शुभाका-पक्षिजातिः। गृहणि ग्रहणे, गृहाकः । विदंक ज्ञाने, विदाका भूतग्रामः । पुल महत्त्वे, पुलाकः, अर्धस्विन्नो धान्यविशेषः । गुंङ शब्दे, गुंत् पुरीषोत्सर्गे वा, गुवाकं-पूगफलम् ।। ३५ ।।
पिषः पिन्-पिण्यौ च ॥ ३६॥
“पिष्टुप् संचूर्णने” इत्यस्मात् किदाकः प्रत्ययो भवति, अस्य च 'पिन् पिण्य' इत्यादेशौ भवतः । पिनाकम्-ऐशं धनुः, शूलं वा, पिनाकः-दण्डः, पिण्याक:-तिलादिखलः ।। ३६ ।।
मवाक-श्यामाक-वार्ताक-वृन्ताक-ज्योन्ताक-गूवाक-भद्राकाऽऽदयः ॥ ३७॥
एते आकप्रत्ययान्ता निपात्यन्ते । मव्य बन्धने, यलोपः, मवाक:-रेणुः । श्यङ गती, मोऽन्तश्च, श्यामाक:-जघन्यो व्रीहिः । वृतेर्वद्धिश्च, वार्ताकी-शाकविशेषः तत्फलं वार्ताकम् । स्वरान्नोऽन्तश्च, वृन्ताकी उच्चबृहती, तत्फलं-वृन्ताकम् । ज्युङ गतौ, न्तश्च प्रत्ययादिः, ज्यवतेऽस्मिन् स्विद्यमान इति-ज्योन्ताक-स्वेदसद्मविशेषः। गुंत् पुरीषोत्सर्गे, गुंङशब्दे वा, ऊवादेशश्च, गूवाकं पूगफलम् । भदुङ सुखकल्याणयोः, अस्य भद्रादेशश्च, भद्राक:-अकुटिलः । आदिग्रहणात् म्योनाक-चार्वाक-पराकाऽदयो भवन्ति ।। ३७ ॥
क्री-कल्यलि-दलि-स्फटि-दृषिभ्य इकः ॥ ३८॥
एभ्य इकः प्रत्ययो भवति । ड्रक्रींगश द्रव्यविनिमये, ऋयिक:-क्रेता। कलि शब्दसंख्यानयोः, कलिका-कोरकः, उत्कलिका-ऊमिः । अली भूषणादौ, अलिकं-ललाटम् । दल विशरणे, दलिक- दारु । स्फट स्फुट विसरणे, स्फटिक:-मणिः । दुषच वैकृत्ये, दूषिकानेत्रमलः ।। ३८॥
आङः पणि-पनि-पदि-पतिभ्यः ॥ ३९ ॥
आङः परेभ्य एभ्य इकः प्रत्ययो भवति । पणि व्यवहार-स्तुत्योः, आपणिक:-पत्तनवासी, व्यवहारज्ञो वा । पनि स्तुतौ, आपनिकः-स्तावकः, इन्द्रनीलः, इन्द्रकीलो वा । पदिच गतो, आपदिकः-इन्द्रनीलः, इन्द्रकीलो वा । पत्ल गतौ, आपतिकः-पथि वर्तमानः, मयूरः, श्येनः कालो वा । आपणिकादयश्चत्वारो वणिजोऽपि ॥३९॥