________________
सूत्र-२७-३० ]
स्वोपज्ञोणादिगणसूत्रविवरणम् ।
दृ-क-नृ-स-भृ---मृ-स्तु-कु-क्षु-लचि-चरि-चटि-कटि-कण्टि-चणि-चषि-फलि-वमि-तम्यवि-देवि-बन्धि-कनि-जनि-मशि-क्षारि-कुरि-वृति-वल्लिमल्लिसल्लयलिभ्योऽकः ॥२५॥
एभ्योऽकः प्रत्ययो भवति । दृश् विदारणे, दरकः-भीरुः । कृत् विक्षेपे, करकःजलभाजनम् , कमण्डलुश्च; करकाः-वर्षपाषाणः । नृश् नये, नरक:-निरयः । सृ गतौ, सरको-मद्यविशेषः । कंसभाजनविशेषश्च, सरका-मधुपानवारः। टुडुभृगक पोषणे च, भरक:-गोण्यादिः घुङ अवध्वंसने, घरकः-सुवर्णोन्माननियुक्तः । वृगट वरणे, वरकः वधूजानि-सहायः वाजसनेयभेदश्च । मृत् प्राणत्यागे, मरकः-जनोपद्रवः । ष्टुगक स्तुतौ, स्तबकः-पुष्पगुच्छः । कुक शब्दे, कवकम्-अभक्ष्यद्रव्यविशेषः । टुक्षुक शब्दे, क्षवक:-राजसर्षपः । लघुङ गतौ, लचकः-रङ्गोपजीवी । चर् भक्षणे च, चरकः-मुनिः। चटण् भेदे; चटकः-पक्षी। कटे वर्षाऽऽवरणयोः कटकः-वलयः। कटु गतौ, कण्टकः-तरुरोम । चण शब्दे, चणकः-मुनिः, धान्यविशेषश्च । चषी भक्षणे, चषकः-पानभाजनम् । फल निष्पत्ती, फलकः-खेटकम् । टुवम् उगिरणे, वमकः-कर्मकरः । तम्च् काङक्षायाम् , तमक:व्याधिः, क्रोधश्च । अव रक्षणादौ, अवका-शैबलम् । देवृङ, देवने, देवका-अप्सराः, देविका-नदी। बन्धंश् बन्धने, बन्धकः-चारकपालः । कनै दीप्त्यादिषु, कनक-सुवर्णम् । जनैचि प्रादुर्भावे, जनकः-सीतापिता। मश रोषे च, मशक:-क्षुद्रजन्तुः । क्षर संचलने ण्यन्त, क्षारकं-बालमुकुलम् । कुरत् शब्दे, कोरकं प्रौढमुकुलम् । वृतूङ वर्तने, वर्तका वर्तिका वा-शकुनिः वल्लि सवरणे, वल्लको-वीणा। मल्लि धारणे, मल्लक:-शरावः, मल्लिकापुष्पजातिः, दीपाधारश्च । सल्लः सौत्रः, सल्लको-वृक्षः, सत्कृत्य लक्यते स्वाद्यते गजैरिति वा-सल्लकी । अली भूषणादिषु, अलकः-केशविन्यासः, अलका-पुरी ॥२७॥
को रु-रुण्टि-रण्टिभ्यः ॥ २८ ॥
कुशब्दात् परेभ्य एभ्योऽक: प्रत्ययो भवति । रुक् शब्दे, कुरवकः-वृक्षः। रुटु स्तेये, कुरुण्टको-वर्णगुच्छः । रण्टि: प्राणहरणे सौत्रः, कुरण्टक:-स एव ।। २८ ।।
ध्रु-धून्दि-रुचि-तिलि-पुलि-कुलि-क्षिपि-क्षुपि-क्षुभि-लिखिभ्यः कित् ॥ २६ ॥
एभ्यः कित् अक: प्रत्ययो भवति । ध्र स्थैर्य च, ध्र वक:-स्थिरः, ध्र वका-आवपनविशेषः । धूत् विधूनने, धुवक-धूननम्, धुवक:-प्रधानं, स्त्रो धुवका-आवपनविशेषः । उन्दैप् क्लेदने, उदक-जलम् । रुचि अभिप्रीत्यां च, रुचक:-आभरणविशेषः। तिलत् स्नेहने, तिलकः-विशेषकः, वृक्षश्च । पुलण् समुच्छ्राये, पुल महत्त्वे वा, पुलकः-रोमाञ्चः । कुल बन्धु-संस्त्यानयोः, कुलकं-संयुक्तम् । क्षिपीत् प्रेरणे, क्षिपक:-वायुः, क्षिपका-आयुधम् । क्षुपः सौत्रो ह्रस्वीभावे, क्षुपक:-गुल्मः । क्षुभच् संचलने, क्षुभकः-पाञ्चालकः । लिखत् अक्षरविन्यासे, लिखक:-चित्रकरः ।। २९ ।।
छिदि-भिदि-पिटेर्वा ॥ ३० ॥ एभ्योऽकः प्रत्ययो भवति, स च किद् वा भवति । छिदृपी द्वैधीकरणे, छिदकः