________________
३२२ ]
बृहद्वृत्ति लघुन्यास संवलिते
[ पाद- ४, सूत्र - ४३
लुनीथः प्रधीध्वमधीध्वमित्येव यूयमधीध्वे, अधीष्वाधीष्वेत्येव यूयमधीध्वे । तथा लुनीत लुनीतेत्येव यूयमलाविष्ट, लुनीहि लुनीहीत्येव यूयमलाविष्ट । श्रधोध्वमधीध्वमित्येव यूयमध्यैवम्, अधीष्वाधीष्वेत्येव यूयमध्यगीढ्वम् । एवं ह्यस्तन्यादिष्वप्युदाहार्यम् ।
यथाविधीति किम् ? लुनीहि लुनीहोत्येवायं लुनाति, छिन्नत्ति लूयते वेति धातोः संबन्धे मा भूत् । प्रधीष्वाधीष्वेत्येवायमधीते, पठति अधीयते वेति धातोः संबन्धे मा भूत् । नीत लुनीतेत्येव यूयं लुनीथ, छिन्थेति धातोः संबन्ध मा भूत् । श्रधीध्वमधीध्वमित्येव यूयमधीध्वे, पठथेति धातोः संबन्धे मा भूत् । लुनीहि लुनीहीत्यादौ च भृशाभीक्ष्ण्ये द्विर्वचनम् ।
ननु च भृशाभीक्ष्ण्ययोर्यङपि विधीयते न तु तत्र द्विर्वचनम्, इह तु द्विर्वचनमित्यत्र को हेतुः ? उच्यते - यङ् स्वार्थिकत्वात् प्रकृत्यर्थोपाधी भृशाभीक्ष्ण्ये समर्थोऽवद्योतयितुमिति तदभिव्यक्तये द्विर्वचनं नापेक्षते, हि स्वादयस्तु-कर्तृ कर्म भावार्थत्वेनास्वार्थिकत्वादसमर्थाः प्रकृत्यर्थोपाधी भृशाभीक्ष्ण्ये अवद्योतयितुमिति तदवद्योतनाय द्विर्वचनमपेक्षन्ते इति ||४२ ||
न्या० स००- भृशाभीक्ष्ण्ये - लुनीहि लुनीहीत्येवायमिति- इति शब्दः संबन्धोपादानार्थोऽन्यथाऽसत्त्वभूतार्थवाचिनोराख्यातयोः परस्परेण संबन्धो नावगम्येत । न तु तत्र द्विर्वचनमिति - किंतु भृशाभीक्ष्ण्यनिरपेक्षं 'सन्यङश्र्व' ४-१-३ इत्यनेन ।
प्रचये नवा सामान्यार्थस्य ॥ ५. ४. ४३ ॥
भृशाssभीक्ष्ण्ये यथाविधीति च नानुवर्तते । प्रचय:- समुच्चयः, स्वतः साधनभेदेन ar भिद्यमानस्य एकत्रानेकस्य धात्वर्थस्याध्यावाप इति यावत् तस्मिन् गम्यमाने सामान्यार्थस्य धातोः संबन्धे सति धातोः परौ हि स्वौ, त-ध्वमौ च तद्युष्मदि वा भवतः ।
व्रीहीन वप लुनीहि पुनीहीत्येव यतते चेष्टते समीहते, यत्यते चेष्टद्यते समीह्यते, पक्ष - व्रीहीन वपति लुनाति पुनातीत्येव यतते यत्यते । देवदत्तोऽद्धि गुरुदत्तोऽद्धि जिनदत्तोऽद्धि इत्येव भुञ्जते, भुज्यते, पक्षे-देवदत्तोऽति गुरुदत्तोऽत्ति जिनदत्तोऽत्तीत्येव भुञ्जते भुज्यते । ग्राममट वनमट गिरिमटेत्येवाटति घटते, अटयते घटयते, पक्षे- ग्राममटति वनमति गिरिमयतीत्येवाटति घटते अटयते घटयते । सक्तून् पिब, धानाः खाद, ओदनं भुङ्क्ष्वेत्येवाभ्यवहरति अभ्यवह्रियते, पक्षे सक्तून् पिबति, धानाः खादति, ओदनं भुङ्क्ते इत्येवाभ्यवहरति श्रभ्यवहियते ।
सूत्रमधीष्व निर्युक्तिमधीष्व भाष्यमधीष्वेत्येवाधीते पठति अधीयते पठ्यते, पक्षेसूत्रमधीते, निर्युक्तिमधीते, भाष्यमधीते, इत्येवाधीते पठति, प्रधीयते पठ्यते ।
त-ध्वमौ तद्युष्मदि-व्रीहीन् वपत, लुनीत, पुनीतेत्येव यतध्वे, चेष्टध्वे समीहध्वे; व्रीहीन् वप लुनीहि पुनीहीत्येव यतध्वे चेष्टध्वे, समीहध्वे, पक्षे- व्रीहीन् वपथ, लुनीथ, पुनीथेत्येव यतध्वे चेष्टध्वे समीहध्वे । ग्राममटत वनमटत गिरिमटतेत्येवाटथ घटध्वे, ग्राममट वनमट गिरिमटेत्येवाटथ घटध्वे, पक्षे-ग्राममटथ, वनमटथ, गिरिमटथेत्येवाटथ घटध्वे । सूत्रमधीध्वं निर्यु क्तिमधीध्वं भाष्यमधीध्वमित्येवाधीध्वे पठथ, सूत्रमधीष्व निर्युक्ति