________________
२ε४ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[ पाद - ३, सूत्र - १०० - १०४
समज् - समजन्त्यस्यामिति - समज्या । निपनिषदेति संहितानिर्देशात् पतेः पदेश्व ग्रहणम्, निपतन्त्यस्यामिति - निपत्या, निपद्या । निषद्-निषदनं निषीदन्त्यस्यामिति वानिषद्या | शो - शेरतेऽस्यामिति शय्या । सुग्-सवनं सुन्वन्त्यस्यामिति वा सुत्या | विद्वेदनं विदन्ति तस्यां तया वा हिताहितमिति विद्या । चर् चरणं चरन्ति श्रनयेति वा-चर्या । मन्- मननं मन्यतेऽनयेति वा मन्या । इण्-अयनमेत्यनयेति वा इत्या | नाम्नीत्येव ? संवीतिः, निपत्तिः, निषत्तिः ॥६॥
न्या० स०- समजनि- पूर्ववत् संज्ञाशब्दत्वात् आधारेऽपि क्यप् । विद्येति-संज्ञाशब्दत्वात् आदादिकस्यैव विदेर्ग्रहणं न त्वन्यस्य ।
कृगः श च वा ।। ५. ३. १०० ।।
करोतेर्भावकत्रः स्त्रियां शः प्रत्ययो वा भवति चकारात् क्यप् च । क्रिया, कृत्या, पक्षेकृतिः । क्रियेति यदा भाव-कर्मणोः शस्तदा मध्ये क्यः, यदा त्वपादानादौ शस्तदा क्यो नास्तीति रेरिकारस्येयादेशः ॥१००॥
मृगयेच्छा-याच्ञा-तृष्णा-कृपा - भा श्रद्धा ऽन्तर्धा ॥ ५. ३. १०१ ॥
एते शब्दाः स्त्रियां निपात्यन्ते । तत्रेच्छा भाव एव, शेषास्तु भावाऽकर्त्रीः । अन्ये तु सर्वान् भाव एवानुमन्यन्ते ।
मृगयतेः शः शब् च क्यापवादो निपात्यते - मृगया । इच्छतेः शः क्याभावश्च - इच्छा । याचितृष्योर्न - नङौ - याच्ञा, तृष्णा । क्रपेरङ् रेफस्य च ऋकारः - कृपा । मातेरङभा । श्रत्पूर्वादन्तः पूर्वाच्च दधातेरङ् श्रद्धा, अन्तर्धा ॥ १०१ ॥
न्या० स० - मृगयेच्छा - तृष्णेति केचित्तु भिदादित्वात् तृषा, स्वमते तु क्रुत्संपदा - दित्वात् तृट् ।
परेः सृ-चरेर्यः ॥ ५. ३. १०२ ॥
परिपूर्वाभ्यां सृ-चरिभ्यां परः स्त्रियां यः प्रत्ययो भवति, भावाऽकर्त्रीः । भाव इत्यन्ये । परिसर्या, परिचर्या । परेरिति किम् ? संसृतिः, चूतिः ॥ १०२ ॥
वाऽटाट्यात् ॥ ५. ३. १०३ ॥
अतेर्यङन्तात् स्त्रियां यः प्रत्ययो वा भवति, भावाऽकर्त्रीः । भाव इत्यन्ये । अटाटा, पक्षे-अः प्रत्ययः - प्रटाटा । अन्ये तु क्तिप्रत्ययबाधनार्थमटते रयङन्तस्य प्रत्ययं द्विर्वचनं पूर्वदीर्घत्वं च निपात्यन्ति-अटनमटाट्या ॥१०३॥
जागुरश्च ॥ ५. ३. १०४ ॥
जागतें: स्त्रियामः प्रत्ययो यश्च भवति । भावाऽकर्त्रीः । भाव इत्यन्ये । जागरा, जागर्या ।। १०४ ।।