________________
[ २६९
पाद - २, सूत्र - ७९-८३ ] श्री सिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्यायः
स्म्यजस-हिंस-दीप-कम्प-कम-नमो रः ।। ५. २. ७१ ॥
स्म्यादिभ्यः शीलादौ सत्यर्थे वर्तमानेभ्यो रः प्रत्ययो भवति ।
स्मयत इत्येवंशीलं - स्मेरं मुखम् । अजसिति "जसूच् मोक्षणे" नञ्पूर्वः, न जस्पतिअत्र श्रवणम्, अजस्रा प्रवृत्ति, अजस्रः पाकः, श्रजस्रं पचति । श्रजस्त्रशब्दोऽयं स्वभावात् सातत्यविशिष्टां क्रियामाह, तेन धात्वर्थ एव कर्तरि र प्रत्ययोऽन्यथा क्रियाभिधानानुपपत्तेः, तेनाजत्रो घट इति न भवति । अजस्त्रमित्यव्ययमपि नित्यार्थं क्रियाविशेषणमस्ति । हिंहिस्रो व्याधः । दीप्-दीप्रो दीपः । कम्प् कम्प्रः । कम्-कामयते कम्रा युवतिः ।
बहुलाधिकारात् कर्मण्यपि, कम्यते- कस्त्रः, तत एव कमितेत्यपि । नम्-नमतीतिनम्रः । अजसि कमि नमिभ्यः कर्मकर्तर्ये वे च्छन्त्येके ||७६ ॥
न्या० स०- स्म्यजस जसूच् मोक्षणे इति अन्येषामणिजन्तानां साहचर्याच्चुरादिणिजन्तो न गृह्यते । धात्वर्थ एव कर्त्तरीति - अन्यस्य धातोरथं इत्यर्थ:, यथाऽजस्रः पाकः इत्यत्य पाकलक्षणेऽर्थे ।
तृषि वृषि स्वपो नजिङ् ॥ ५, २.८० ॥
तृषि - धृषि स्वपिभ्यः शीलादौ सत्यर्थे वर्तमानेभ्यो नजिङ प्रत्ययो भवति । तृष्यतीत्येवंशील :- तृष्णक्, तृष्णजौ । धृष्णक्, धृष्णजौ । स्वप्नक्, स्पप्नजौ । sert गुणप्रतिषेधार्थः, इकार उच्चारणार्थः । धृषो नेच्छन्त्येके ||८०||
स्थेश-भास-पिस-कसो वरः ।। ५. २. ८१ ॥
स्थादिभ्यः शीलादौ सत्यर्थे वर्तमानेभ्यो वरः प्रत्ययो भवति ।
तिष्ठतीत्येवंशील :- स्थावर:, स्थावरा । ईश्वरः, ईश्वरा । कथमीश्वरी ? "अश्नोरोच्चादे: " (४४२ ) इत्यौणादिके वरटि भवति । भास्वरः, भास्वरा । पेस्वरः, पेस्वरा । विकस्वर:, विकस्वरा । प्रमदेरपीति कश्चित् - प्रमाद्यति प्रमद्वर ॥ ६१ ॥
यायावरः ।। ५. २. ८२ ॥
यातेर्धातोः शीलादौ सत्यर्थे वर्तमानाद् यङन्तात् वरः प्रत्ययो निपात्यते ।
कुटिलं यातीत्येवंशीलो - यायावरः ॥८२॥
व्या० स०- यायावर इति - 'य्वोः ' ४-४ -१२१ इति यलुप्, 'योऽशिति' ४-३-८० इति न व्यञ्जनादित्यधिकारात् ।
दिद्युद दहजगज्जुहू वाक्-प्राट्-धी श्री-द्र-स्त्र -ज्वायतस्तू-कटपू-परिब्राडू-भ्राजादयः क्किपः ।। ५. २. ८३ ॥