________________
पाद - २, सूत्र - ६८-७२ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्यायः [ २६७
निन्द- हिंस-क्लिश-खाद- विनाशि व्याभाषा ऽसूयाऽनेकस्वरात् ॥ ५. २. ६८ ॥
एभ्यः शीलादौ सत्यर्थे वर्तमानेभ्यो णको भवति ।
निन्दतीत्येवंशीलो - निन्दकः, हिंसकः, क्लिश्नाति क्लिश्यते वा वलेशकः, खादकः, विनाशयति- विनाशकः, व्याभाषकः । श्रसूयः कण्वादी असूयकः, दरिद्रायकः, चकासकः, गणकः, चुलुम्पकः । अनेकस्वरत्वादेव सिद्धेऽसूयग्रहणं कण्ड्वादिनिवृत्यर्थम् तेन - कण्डूयिता, मन्तयिता, तृन्नेव । विनाशिग्रहणं तु अन्यस्य ण्यन्तस्य निवृत्त्यर्थम् - कारयिता । अनेकस्वरान्नेच्छन्त्यन्ये । क्लिशेर - विशेषेण ग्रहणाद् देवादिकादिदित्त्वेऽपि श्रनो न भवति ।। ६८ ।।
1
न्या० स० - निन्दहिंस - अन्यस्य ण्यन्तस्येति कथं तर्हि गणकः, अत्रेदं व्याख्यानं कर्त्तव्यं, यत् विनाशीति णिगन्तस्योपादानं करोति तत् ज्ञापयति अन्यस्यापि णिगन्तस्य वर्जनं तेन णिजन्तस्य भवत्येव ।
उपसर्गाद् देवृ-देवि-कुशः ॥ ५, २. ६१ ॥
उपसर्गात् परेभ्यः शीलादौ सत्यर्थे वर्तमानेभ्य एभ्यो णको भवति ।
णम्, देवनः,
,
आदेवत इत्येवंशील :- आदेवकः, परिदेवकः । देवीति दीव्यतेर्देवतेव ण्यन्तस्य ग्रहआदेवयतीति- आदेवकः, परिदेवकः, श्राक्रोशकः, परिक्रोशकः । उपसर्गादिति किम् ? देवयिता, क्रोष्टा । देवतेर्ण्यन्तादेवेति कश्चित् ॥ ६६ ॥
न्या० स०-उपसर्गाद्देवृ ण्यन्तस्य ग्रहणमिति - लक्षणप्रतिपदेत्यस्य न्यायस्यानित्यत्वात् अथवा भिन्नदेवृग्रहणात् अन्यथा देवग्रहणमेव कुर्यात् ।
वृङ- भिति लुण्टि-जल्पि-कुट्टाट्टाकः ॥ ५२.७० ॥
एभ्यः शीलादौ सत्यर्थे वर्तमानेभ्यष्टाकः प्रत्ययो भवति ।
वृणीते इत्येवंशीलो - वराक:, वराकी भिक्षाकः, भिक्षाकी । लुण्टाकः, लुण्टाकी । जल्पाकः, जल्पाकी । कुट्टाकः, कुट्टाकी । टकारो ङयर्थः ॥ ७० ॥
प्रात् सू-जोरिन् ॥ ५. २. ७१ ॥
प्रात् पराभ्यां सुवति- जुभ्यां शीलादौ सत्यर्थे वर्तमानाभ्यामिन् प्रत्ययो भवति । 'सू' इति निरनुबन्धग्रहणात् सुवतेर्ग्रहणम्, न सूति- सूयत्योः । प्रसुवतीत्येवंशील:प्रसवी । प्रजवी ।।७।।
जीण-दृ-ति-विश्रि परिभू-वमा ऽभ्यमाऽव्ययः ।। ५. २. ७२ ॥ एभ्यः शीलादौ सत्यर्थे वर्तमानेभ्य इन् भवति ।
जि-जयतीत्येवंशीलो - जयी, इण्-अत्ययी, उदयी, ह-आदरी, क्षीति क्षि-क्षितो