________________
२६६ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पाद-२, सूत्र-६२-६७
संवसतीत्येवंशीलः-संवासी, प्रवासी । शनिर्देशाद् वस्तेर्न भवति ।।६१॥ समत्यपाभिव्यमेश्वरः ॥ ५. २. ६२ ॥
'सम्, अति, अप, अभि, व्यभि' इत्येतेभ्यः पराच्छीलादौ सत्यर्थे वर्तमानाच्चरेघिणन् भवति ।
संचरतीत्येवंशीलः-संचारी, अतिचारी, अपचारी, अभिचारी, व्यभिचारी ॥२॥ समनुव्यवाद रुधः॥ ५. २. ६३॥ 'सम्, अनु, वि, अव' इत्येतेभ्यः पराच्छीलादौ सत्यर्थे वर्तमानात रुधोधिनण् भवति । संरुन्धे इत्येवंशीलः-संरोधी, अनुरोधी, विरोधी, अवरोधी ॥६३।। वेदहः॥ ५. २. ६४ ॥
विपूर्वाच्छीलादौ सत्यर्थे वर्तमानाद् दहेधिनण् भवति । विदहतीत्येवंशीलोविदाही ॥६४॥
परेदैवि मुहश्च ॥ ५. २. ६५॥
देवीति देवृधातोरण्यन्तस्य ण्यन्तस्य च ग्रहणम् । परिपूर्वाभ्यां शीलादौ सत्यर्थे वर्तमानाभ्यामाभ्यां दहश्च घिनण् भवति ।
परिदेवते परिदेवयति वा-परिदेवी । ण्यन्तान्नेच्छन्त्यन्ये । परिमोही, परिदाही ॥६५।।
न्या० स०-परेर्देवि-देवृधातोरिति-लाक्षणिकत्वात् दीव्यतेय॑न्तस्य न ग्रहणम् । क्षिप-रटः॥ ५. २.६६ ॥ परिपूर्वाभ्यामाभ्यां शीलादौ वर्तमानाम्यां घिनण् प्रत्ययो भवति । परिक्षिप्यति परिक्षिपति वा-परिक्षेपी, परिक्षेप्यम्भसाम्, परिराटी॥६६॥ वादेश्व णकः॥ ५.२.६७ ॥
परिपूर्वाच्छीलादौ सत्यर्थे वर्तमानाद् वादयतेः क्षिप-रटिम्यां च णकः प्रत्ययो भवति ।
परिवादयतीत्येवंशीलः-परिवादकः । वदेरपि केचित् । परिक्षेपकः । परिराटकः । असरूपत्वात् “णक-तृचौ" (५-१-४८) इति सिद्धे पुनविधानं शीलादिप्रत्ययेष्वशीलादिकृवप्रत्ययोऽसरूपविधिना न भवतीति ज्ञापनार्थम्, तेनालंकारकः, परिक्षिपः, परिरट इत्यादि शीलाद्यर्थ न भवति । बाहुलकाव क्वचिद् भवत्यपि
"काम-क्रोधो मनुष्याणां खादितारौ वृकाविव" । अत्र गकविषये तृच् ॥६७॥