________________
२०० ]
बृहद्वृत्ति-लघुन्याससंवलिते
[ पाद-४, सूत्र-९२-६४
- संचस्कार, परिचस्कार, समस्करोत्, पर्यस्करोत्, समस्कार्षीत , पर्यस्कार्षीत् , समचिस्करत, पर्यचिस्करत्, कथं संकृतिः, गर्गादिपाठात् । संकर: परिकर इति किरतेरला भविष्यति । संकार इत्यत्र किरतिरेव, बहुलाधिकारात् घञ् । स्सडिति द्विसकारनिर्देशात् समचिस्करदित्यादौषो न भवति । परिष्करोतीत्यादौ त 'असोङसिवसहस्सटाम' (२-३४६ ) इत्यादिवचनाद्भवति, टकारः 'स्सटि समः' (१-३-१२) इत्यत्र विशेषणार्थः ।।१।
न्या० स०-संपरेः कृगः-संस्कसेतीति-कस्यादिरिति व्याख्यानादऽनुस्वारस्यापि व्यञ्जनत्वे 'धुटो धुटि' १-३-४८ इति प्रवर्त्तते इति न्यासः ।
उपाभूषा-समवाय-प्रतियत्न-विकार-वाक्याच्यारे ।। ४. ४. १२ ॥
उपात्परस्य कृगो भूषाविष्वर्थेष्वादिः सट भवति, भूषालंकारः तत्र-कन्यामुपस्करोति भूषयति इत्यर्थः । समवायः समदायः, तत्र न उपस्कृतं समदितमित्यर्थः: पुनर्यनः प्रतियत्नः, सतोऽर्थस्य संबन्धाय वृद्धये तादवस्थ्याय वा समीहा प्रतियत्नः, एधोदकस्योपस्कुरुते । काण्डगुणस्योपस्कुरुते । तत्र प्रतियतत इत्यर्थः । प्रकृलेरन्यथाभावो विकारः,तत्र-उपस्कृतं भुङ्क्ते, उपस्कृतं गच्छति, विकृतमित्यर्थः। गम्यमानार्थस्य वाक्यैकदेशस्य स्वरूपेणोपादानं वाक्याध्याहारः, तत्र-उपस्कृतं जल्पत्ति, उपस्कृतमधीते । सोपस्कराणि सूत्राणि सवाक्याध्याहाराणीत्यर्थः । एग्विति किम् ? उपकरोति ।।१२।।
न्या० स०-उपाद्भूषा-सतोऽस्येति-सतोऽसंबद्धस्य सबन्धाय लाभाय लब्धस्य वा वृद्धये आधिक्याय वृद्धस्य वा तादवस्थ्याय सा पूर्वावस्थाऽस्य तदवस्थाऽस्य तदवस्थं वस्तु तस्य भावः । अपायपरिहारेणाऽभिमतावस्थासंरक्षणम् ।।
__ उपस्कृतं भुङ्क्ते इति-संसत्कं धान्यं भुङक्ते इत्यर्थः । वाक्याध्याहार इति-गम्यमानार्थानि पदानि सुखार्थमुच्चार्यन्ते, यथा 'ज्ञः' ३-३-८२ इति सूत्र कर्मण्य सति गम्यमानमपि स्वरूपेण उपादीयते, यथा वा "किरो लधने' ४-४-६३ इति उपादिति स्वरूपेण गृह्यते ।
किरो लवने ॥ ४. ४.१३॥
उपात्परस्य किरतेः सडादिर्भवति लवने लवनविषयश्चेत्तदर्थो भवति । उपस्कोर्य मद्रका लुनन्ति, उपस्कारं मद्रका लुनन्ति--विक्षिप्य लुनन्तीत्यर्थः। 'उपात् किरो लवने' (५-४-७२) इति णम् ।
लवन इति किम् ? उपकिरति पुष्पम् ।। ६३ ॥
न्या स०-किरो लवने-किर इति इनिर्देशः क्रयादिकनिवृत्त्यर्थः, न तु इरादेशे सति कार्यार्थस्तेन वाक्येऽपि स्सट् भवति ।
प्रतेश्च वधे ॥ ४. ४. १४॥
प्रतेल्पाच्च परस्य किरतेर्वधे हिसायां विषयेऽभिधेये वा सडाविर्भवति । प्रतिस्कोणं ह ते वृषल भूयात् , उपस्कीणं ह ते वृषल भूयात्-हिंसानुबन्धी विक्षेपस्ते भूयात् इत्यर्थः ।