________________
१९० ]
बृहवृत्ति-लघुन्याससंवलिते
[पाद-४, सूत्र-५९-६३ .
ग्रहगुहश्व सनः ॥ ४. ४.५१ ॥
ग्रहिगुहिन्यामुवर्णान्ताच्च धातोविहितस्य सन आदिरिट् न भवति । ग्रह, जिघृक्षति । गुहौ,-जुघुक्षति, रुरूषति, तुतूषति, बुभूषति, लुलूषति, पुपूषति । यौतेस्तु 'इवृध' (४-४-४७ ) इत्यादिना विकल्पः । यियविषति, युयूषति । गुहेरिटमपीच्छत्यन्यः । जुगूहिषन् मत्तगजोऽभ्यधावत् ।।५।।
स्वार्थे ॥ ४. ४. ६०॥
स्वार्थे विहितस्य सन आदिरिट् न भवति । जुगुप्सते, तितिक्षते, चिकित्सति, शीशांसते, दोदांसते, मीमांसते, बीभत्सते, स्वार्थे इति किम् ? पिपठिषति ॥६०॥
ङीयश्व्यैदितः क्तयोः॥ ४. ४. ६१ ॥
डीयतेः श्वयतेरैदिभ्यश्च धातुभ्यः परयोः क्तयोरादिरिट् न भवति । डीनः, डोनवान्, उड्डोनः, उड्डोनवान्, शूनः, शूनवान्, ऐदितः, ओ लस्जौ, लग्न:, लग्नवान्, विज,उद्विग्न, उद्विग्नवान्, यतै,-यत्तः, यत्तवान्, त्रस,-त्रस्तः, त्रस्तवान्, दीप,-दीप्तः, दीप्तवान् ।
ङीयेति श्यनिर्देशात् डयतेरिडेव । डयितः, डयितवान् । क्तयोरिति किम् ? डयिता, श्वयिता, लज्जिता, उद्विजिता । कृतेनतेचते इत्येतेषां वेटत्वेन क्तयोरिटप्रतिषेधे सिद्ध ऐदित्त्वं यङ्लुवर्थम् । तेन चरीकृत्तः । चरीकृत्तवान्, नरोनृत्तः, नरीनृत्तवान्, चरीवृत्तः । चरीवृत्तवान् इत्यत्रानेकस्वरत्वेऽपोटप्रतिषेधः ।।६१।।
वेटोऽपतः ॥ ४. ४.६२॥
पतिवजिताद्यत्रक्वचिद्विकल्पितेटो धातारेकस्वरात्परयोः क्तयोरादिरिट् न भवति । रधौ,-रद्धः, रद्धवान्, प्रजौ,-अक्तः, प्रक्तवान् , गुहौ,-गूढः, गूढवान्, शमू,-शान्तः, शान्तवान, अस-प्रस्तः, अस्तवान् । केचिदस्यतेर्भाव क्ते नित्यमिटमिच्छन्ति । प्रसितमनेन सह,-सोढः, सोढवान् । अपत इति किम् ? पतितः,-पतितवान् । सनि वेट्त्वात्प्राप्ते प्रतिषेधः । एकस्वरावित्येव ? दरिद्रितः, दरिद्रितवान् । कथं प्रोणुतः, प्रोणुतवान् ? 'ऋवर्णश्यूटुंगः कितः' (४-४-५८) इत्यनेन भविष्यति ॥६३॥
न्या० स०-वेटोऽपतः कथं वञ्चितः वंचिण् प्रलम्भने इत्यस्य भविष्यति । संनिवरदः॥ ४. ४. ६३ ॥
संनिविपूर्वादर्दतेः परयोः क्तयोरादिरिट् न भवति । समर्णः; समण्णर्वान्, न्याः , न्यर्णवान्, व्यर्णः, व्यर्णवान् । संनिवेरिति किम् ? अदितः, प्रादितः । कश्चित्केवलादपीच्छति । अर्णः, अर्णवान् ॥६३।।
न्या० स०-संनिवेर०-समर्ण इति-'रदादमूर्छ' ४-२-६९ इति न: 'रषवर्ण' २-३-६३ इति क्तनस्य णत्वम् ।