________________
१६० ]
बृहद्वृत्ति - लघुन्याससंवलिते [ पाद- ३, सूत्र - ७६-७७
स्वरेऽतः ॥ ४. ३. ७५ ॥
सकोऽकारस्य स्वरादौ प्रत्यये परे लुग् भवति । अधुक्षाताम् अधुक्षाथाम्, अधुक्षि, प्रधिक्षाताम् अधिक्षाथाम् अधिक्षि । स्वर इति किम् ? अधुक्षत, अधिक्षत । अधुक्षन्तेत्यकारलोपेsपि स्थानिवद्भावादन्तोऽदादेशो न भवति ।। ७५ ।।
,
,
न्या० स० स्वरेऽतः - अधुक्षातामिति-सकोऽकारलोपात् 'आतामाते' ४-२-१२१ इति इत्वं, 'अवर्णस्य' १-२ -६ इत्येत्वं च न भवति । स्थानिवद्भावादिति-प्राचः पूर्वास्माद्विधिरित्या श्रीयते इति 'स्वरस्य पर' ७-४- ११० इति स्थानिवद्भावः ।
दरिद्रोऽद्यन्यां वा ॥ ४. ३. ७६ ॥
दरिद्रातेरद्यन्यां विषयेऽन्तस्य वा लुग् भवति । अदरिद्रीत्, अदरिद्रासीत्, अदरिद्रि, अदरिद्रापि ।। ७६ ॥
न्या० स० दरिद्रोऽद्यतन्यां वा अद्यतन्यां विषयेति विषयव्याख्यानादादेशादागम इति न्यायात् प्रथमं यमिरमिनम्यात: ' ४-४-८६ इति इट् सोन्तश्च न भावकर्मणोस्तु त्रिविचि 'आत ऐः कृञ्ञौ' ४-३ - ५३ इति ऐकारो न ।
अशित्यस्सन्णकज्णकानटि ॥ ४. ३. ७७ ॥
सकारादिसन्णकच्णकानड्वजितेऽशिति प्रत्यये विषयभूते दरिद्रातेरन्तस्य लुग् भवति । दरिद्रयति, दरिद्रिता, दरिद्रितुम् दरिद्रणीयम्, साधुदरिद्री । णिन् दरिद्रयते, दरिद्रयात्, दरिद्रांचकृवान् विषयसप्तमीविज्ञानात्पूर्वमेवाकारलोपे दरिद्रातीति दरिद्रः । अजेव भवति नत्वाकारान्तलक्षणो णः । तथा दुर्दरिद्रमित्याकारान्तलक्षणोऽनो न भवति । दरिद्राणम्, दरिद्र इति च घञि 'प्रात' इति ऐनं भवति ।
अशितीति किम् ? दरिद्राति, दरिद्रामि, अदरिद्राम् । सन्नादिवर्जनं किम् ? सनि,दिदरिद्रासति । क्रियायां क्रियार्थायां णकचि दरिद्रायको व्रजति । 'पर्यायार्हण' (५-३-२० ) इत्यादिना णके दरिद्रायिका वर्तते । 'णकतृचौ' (५-१-४८) इति च णके दरिद्रायकः । अनटि - दरिद्राणम् । सनः सादिविशेषणं किम् ? दिदरिद्रिषति । श्रप्रक-इत्येव वक्तव्ये णकचणकयोरुपादानं किम् ? आशिष्यकनि मा भूत् दरिद्रकः । केचिद्दरिद्रातेरनिटि कसावालोपं नेच्छन्ति, तन्मते इट् आम् चाभिधानान्न भवतः - दिदरिद्रावान् ।। ७७ ।।
न्या० स० अशित्यस्सन् ०-दरिद्रयतीति- दरिद्रतं प्रयुङ्क्ते णिगि विषयविज्ञानात् पोऽन्तो न । दरिद्रातीति दरिद्रः इति- विशेषविहितापि लुक् लोपात्स्वरादेश इति 'आत ऐ: 'कृञ्ञौ' ४-३ - ५३ इत्यैकारेण प्रत्यये बाध्यते ।
दरिद्रांच कृवानिति - आमादेशस्यानित्यत्वे ददरिद्रवानित्यपि षष्ठ्यां तु ददरिद्रुष इति भवति ।
दिदरिद्रिषतीति - नन्वत्र 'इडेत् पुसि च ' ४ ३-९४ इत्यनेन आल्लुकि दिदरिद्विषतीत्येव