________________
पाद-३, सूत्र-७१-७५ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः
[ १५९
सिज्लुक्यपि स्थानित्वेन तत्कार्यप्रतिपत्त्यर्थम्, तेनावात्तामित्यादिषु सिचि विधीयमाना वृद्धिस्तदभावेऽपि सिद्धा भवति । तथासीत्यनुवर्तमाने तथग्रहणं व्याप्तिप्रतिपत्त्यर्थम् तेन साहचर्य नास्ति । तथोरिति द्विवचनं यथासंख्यपरिहारार्थम् ।।७०।।
न्या स०-धुह्रस्वा०-अकृतेति-यदि तनादौ पाठः स्यात्तदा वा लुक् स्यात् । अलाविष्टामिति-नन्वनिट इत्यंशेन व्यङ्गविकलता ? नैवं, अलावि इति ह्रस्वान्तरूपाश्रयणेन ततः परस्यानिट: सिचो विद्यमानत्वात् ।
इट ईति ।। ४. ३. ७१ ॥
इटः परस्य रािच ईति परे लग भवति । अलावीत , सिचो लक्यपि स्थानिवद्भावादवृद्धिः । अग्रहीत् । इट इति किम् ? अकार्षीत् , अरौत्सीत् । ईति किम् ? अलाविष्टम् , अमणिषम् ।।७१॥
सो धि वा ।। ४. ३. ७२ ॥
धातोर्धकारादौ प्रत्यये परे सकारस्य लुग वा भवति । चकाधि, चकाद्धि, पाशाध्वम् , आशादूध्वम् , अलविड्ढवम् , अलविढ्वम् । सिच्यनुवर्तमाने सग्रहणं सामान्यसकारपरिग्रहार्थम् , तेन प्रकृतिसकारस्यापि लुग भवति । विकल्पं नेच्छन्त्येके,-अन्ये तु सिच एव नित्यं लोपमिच्छन्ति ॥७२॥
___ न्या० स० सो धिवा-अलविड्ढ्वमिति-लू धातुस्ततो ध्वम् , सिच् इडागमे च सिचः षत्वे च 'तवर्गस्य' १-३-६० इति घस्य ढत्वे 'तृतीयस्तृतीय' १-३-४९ इति षस्य डत्वे च सिद्धम् ।
अस्तेः सि हस्त्वेति ॥ ४. ३. ७३ ॥
अस्ते: सकारस्य सकारादौ प्रत्यये परे लुग भवति, एकारे तु प्रत्यये सकारस्य हकारः । असि, व्यतिसे। अकारसकारयोर्लोपे प्रत्ययमात्रं पदम् । हस्त्वेति, व्यतिहे, भावयामाहे, कारयामाहे चैत्रेण, परोक्षाया एकारे नेच्छन्त्यन्ये-भावयामासे, कारयामासे ॥७३॥
दुह-दिह-लिह-गुहो दन्त्यात्मने वा सकः ॥ ४. ३.७४ ॥ एभ्यः परस्य सक्प्रत्ययस्य दन्त्यादावात्मनेपदे परे लुग् वा भवति ।
दुह,-अदुग्धअधुक्षत, अदुग्धाः ,-अधुक्षथाः, अधुग्ध्वम् , अधुक्षध्वम् , अदुहहि, अधुक्षावहि, दिह-अदिग्ध, अधिक्षत, अदिग्धाः, अधिक्षथाः, अधिग्ध्वम् , अधिक्षध्वम् , अदिह्वहि, अधिक्षावहि, लिह-अलीढ, अलिक्षत, अलीढाः, अलिक्षथाः, अलीढ्वम् , अलिक्षध्वम् , अलिबहि, अलिक्षावहि, गुह.-न्यगूढ, न्यघुक्षत, न्यगूढाः, न्यघुक्षथाः, न्यघूड्ढ्वम्, न्यघुक्षध्वम् , न्यगुह्वहि, न्यघुक्षावहि । प्रात्मन इति किम् ? अधुक्षत् , अधिक्षत । दन्त्येति किम् ? अधुक्षामहि, अधिक्षामहि ।।७४॥