________________
१५० ]
बृहवृत्ति-लघुन्याससंवलिते
[पाद ३, सूत्र-३७-४२
इत्यात्मनेपदतप्रत्यये 'स्वरदुहो वा' ३-४-९० इति विकल्पेन त्रिच् , कर्मणि तु नित्यं त्रिच् स्यात् , एवमऽपूष्टेंत्यत्रापि।
गमो वा ॥ ४. ३.३७॥
गमेः परे प्रात्मनेपदविषये सिजाशिषौ किद्वद्वा भवतः । समगत, समगस्त चैत्रः, अगसाताम् अगंसाताम् ग्रामौ चैत्रेण, संगसीष्ट, संगंसीष्ट चैत्रः, गसीष्ट, गंसीष्ट, चत्रेण ॥ ३७॥
हनः सिच् ॥ ४. ३. ३८॥
हन्तेः पर आत्मनेपदविषयः सिच् किवद्भवति । पाहत,-आहसाताम् ,आहसत ॥ ३८॥
यमः सूचने ॥ ४. ३. ३१ ॥
सूचनं परदोषाविष्करणम् तत्र वर्तमानाद्यमे: पर आत्मनेपदविषयः सिच् किद्वद्ववति । उदायत. उदायसाताम, उदायसत । 'प्राडो यमहनः स्वेऽङगे च (३-३-८६ ) इत्यात्मनेपदम् । सूचन इति किम् ? प्रायंस्त कूपाद्रज्जुम, उद्धृतवानित्यर्थः। सकर्मकात् 'समुदाडो यमेरग्रन्थे' ( ३-३-३८ ) इत्यात्मनेपदम् ।। ३९ ।।
वा स्वीकृतौ ॥ ४. ३. ४० ॥
स्वीकृतो वर्तमानाद्यमेः पर आत्मनेपदविषयः सिच् किद्वद्वा भवति । उपायत, उपायंस्त महास्त्राणि, उपायत उपायंस्त कन्याम, मोपयध्वं भयं सीतां नोपायंस्त दशाननः । 'यमः स्वीकारे' ( ३-३-५६ ) इत्यात्मनेपदम् । स्वीकृताविति किम् । प्रायंस्त पाणिम् । सिजित्येव,-उपयंसीष्ट कन्याम् । उद्वाह एवेच्छन्त्यन्ये ॥ ४० ॥
इश्च स्थादः॥ ४. ३. ४१ ॥
तिष्ठतेसिंज्ञाच्च धातोः पर आत्मनेपदविषयः सिच् किवद्भवति, तत्संनियोगे च स्थादोरन्तस्येकारादेशो भवति । उपास्थित, उपास्थिषाताम्, उपास्थिषत, दाम्,-व्यत्यदित, व्यत्यदिषाताम् वस्त्रे, बेङ्-प्रवित पुत्रम् , डुदांगक-अदित धनम् , वोच,-व्यत्यवित दण्डौ, धे,-व्यत्यधित स्तनौ, जुषांगक, अधित भारम् ।
स्थाव इति किम् ? दांवोयंत्यदास्त व्यत्यदासाताम् , व्यत्यदासत । आत्मनेपद इत्येव,-अधासीत् ॥४१॥
न्या० स०-इश्च स्थादः-किवद्भवतीति-नन्विकारविधानादेव गुणो न भविष्यति कि सिचः किद्विधानेन ? सत्यं, विधानस्य ह्रस्वद्वारा 'धुह्रस्व' ४-३-७० इति सिच्लोपे चरितार्थत्वात् गुणः स्यात् ।
मृजोऽस्य वृद्धिः ॥ ४. ३. ४२ ॥