________________
पाद-३, सूत्र-३२-३६ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः
[ १४६
पादानादिति, यतस्तेषां 'वौ व्यञ्जनादेः' ४-३-२५ इति विकल्पे प्राप्तेऽनेन प्रतिषेधे चरितार्थमुपादानम् ।
रुद-विद-मुष-ग्रह-स्वप-प्रच्छः सन् च ॥ ४. ३. ३२ ॥ सेडिति निवृत्तम् , एभ्यः परः सन् क्त्वा च किवद्भवतः । .
रुदित्वा, रुरुदिषति, विदित्वा. विविदिषति, मुषित्वा, मुमुषिषति, गृहीत्वा, जिघृक्षति, सुप्त्वा, सुषुप्सति, पृष्ट्वा, पिपच्छिषति, रुदविदमुषो 'वौ व्यञ्जनादेः सन् चाऽस्तः' (४-३-२५) इति विकल्पे आहेस्तु 'क्त्वा' (४-३-२६) इति प्रतिषेधे प्राप्ते वचनम् । स्वपिप्रच्छयोः सन्नर्थमेव, क्त्वा हि किदेव ।। ३२ ।।
न्या० स०-रुदविद०-विदेति 'विदक ज्ञाने' इत्यस्य ग्रहणं नान्येषां, तेषां हि निषेधाभावात् किद्वदेव क्त्वा, न वाच्यं 'वौ व्यञ्जनादे:' ४-३-३५ इति विक्ल्पः, तत्र सेटीति विशेषणात् । निवृत्तमिति-स्वपप्रच्छोरिटोऽसंभवात् ।
नामिनोऽनिट् ।। ४. ३. ३३ ॥ ___ नाम्यन्ताद्धातोरनिट सन् किवद्भवति । चिचीषति, तुष्टषति, लुलपति, चिकीर्षति, तितीर्षति । नामिन इति किम् ? पिपासति, तिष्ठासति । अनिडिति किम् ? शिशयिषते । सनित्येव ? चेता, नेता ।। ३३ ।।
उपान्त्ये ॥ ४. ३. ३४ ॥
नामिन्युपान्त्ये सति धातोरनिट् सन् किवद्भवति । बिभित्सते, बुभुत्सते, विवृत्सति, धिप्सति । अनिडित्येव,-विवतिषते, विवधिषते। नामिन इत्येव,-यियक्षति, विवत्सति । सनित्येव,-भेत्ता ॥ ३४॥
सिजाशिषावात्मने ॥ ४. ३. ३५ ॥ नामिन्युपान्त्ये सति धातोः परे आत्मनेपदविषये अनिटौ सिजाशिषौ किवद्भवतः ।
अभित्त, अबुद्ध, असृष्ट, भित्सीष्ट, भुत्सीष्ट, सृक्षीष्ट । सिजाशिषाविति किम् ? भेत्स्यते, भोत्स्यते । आत्मने इति किम् ? अस्राक्षीत् , अद्राक्षीत् । नामिन इत्येव,-अयष्ट, यक्षीष्ट । उपान्त्य इत्येव,-अचेष्ट, चेषीष्ट । अनिडित्येव,-अवधिष्ट वधिषीष्ट ॥ ३५॥
____ न्या० स० सिजाशिषा०-अचेष्ट इति-सिचो लुकः परत्वेऽपि नित्यत्वात् प्रागेव गुणः, एतच्च 'धुट् ह्रस्व' ४-३-७० इत्यत्र कथयिष्यति ।
ऋवर्णात् ॥ ४. ३.३६ ॥
ऋवर्णान्ताद्धातोः परे अनिटावात्मनेपदविषये सिजाशिषौ किवद्भवतः। अकृत, - अहृत, कृपोष्ट, हृपोष्ट, अतीट, अपूष्ट, तीढुष्ट, पूर्षीष्ट । अनिटावित्येव,-प्रवरिष्ट, वरिषीष्ट, अतरिष्ट, तरिषीष्ट ॥ ३६ ॥
न्या० स० ऋवर्णाव-अतीट इति-अस्मात् कर्मकर्तरि 'एकधातौ' ३-४-८६