________________
१४६ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पाद-३, सूत्र-२२-२४
डिद्वदिति प्रकृते किद्वद्वचनं यजादिवचिस्वपीनां य्वदर्थम् । जागर्तश्च गुणार्थम् । , डित्त्वे हि ते न स्याताम् । यथा,-स्वपितः, स्वपन्ति, जागृतः, जाग्रति ।। २१ ॥
. न्या० स० इन्ध्यसंयोगात-निन्यतुरिति-नन्वत्र 'नो व्यञ्जनस्य' ४-२-४५ इत्युपान्त्यनकारस्य लुक् कथं न ? सत्यं, प्रकृतेः पूर्वमन्तरङ्गमिति कृत्वा न लोपे बहिरङ्ग यत्वमसिद्धमिति न व्यञ्जनान्तत्वं, यद् वा यत्वे कृते संयोगान्तो धातुस्तत: कित्त्वमपि नास्ति ।
ऊचतुरिति-यजादिसाहचर्यात् नित्याऽणिजन्तस्यैव वचो ग्रहणमिति 'वचण भाषणे' इत्यस्य 'यजादिवचेः किति' ४-१-७९ इति न य्वृत् ।
किद्वद्वचनमिति-नन्वधिकारायाते ङित्वेऽप्याश्रीयमाणे गुणादिकार्य न भविष्यति किं किद्वद्वचनेन ? इत्याह-यजादीति । ते इति-तच्च स चेति वाक्ये त्यदादित्वात्तच्छेष: स्त्रीपुन्नपुसकानामिति वचनात् सूत्रे यत्परं तद्भवति ।
स्वञ्जनवा ॥ ४. ३. २२ ॥ स्वजेः परा परोक्षा वा किद्वद्भवति । परिषस्वजे, परिषस्वजे ।। २२ ।। जनशो न्युपान्त्ये तादिः क्त्वा ॥ ४. ३. २३ ॥
जकारान्ताद्धातोनशेश्च नकारे उपान्त्ये सति तकारादिः क्त्वा किद्वद्वा भवति । रक्त्वा, रङ्क्त्वा , भक्त्वा, भक्त्वा , मकत्वा, मङ्क्त्वा । 'मस्जेः सः' ( ४-४-१११ ) इति नः । नष्टवा, नंष्ट्वा 'नशो धुटि' (४-४-११०) इति नः । नीति किम् ? भक्त्वा , इष्ट्वा । उपान्त्य इति किम् ? निक्त्वा। क्त्वेति किम् ? भक्ता, नंष्टा। तादिरिति किम् ? विभज्य, अञ्जित्वा ।। २३ ।।
न्या० स०-जनशो-अजित्वेत्यत्र 'धूगौदितः' ४-४-३८ इतीट् । ऋत्तृष-मृष-कृश-वञ्च-लुञ्च-थफः सेट् ॥ ४. ३. २४ ॥
न्युपान्त्य इति विशेषणं थफान्तानाम् नान्येषां संभवव्यभिचाराभावात् , न्युपान्त्ये सति एभ्यो विहितः क्त्वा सेट किद्वद्वा भवति ।
ऋत्-ऋतित्वा, अतित्वा, तृष्-तृषित्वा तृषित्वा, मृषच ,-मृषित्वा, मषित्वा, कृश,कशिवा, शित्वा. वञ्च-वचित्वा. वञ्चित्वा, लञ्च:-लचित्वा, लश्चित्वा, श्रन्थ.-श्रथित्वा. श्रन्थित्वा, ग्रन्थ ,-प्रथित्वा, ग्रन्थित्वा, गुम्फ,-गुफित्वा,-गुम्फित्वा, ऋम्फ,-ऋफित्वा, ऋम्फित्वा । न्युपान्त्य इत्येव, कुथ्,-कोथित्वा, पुथ्,-पोथित्वा, रिफ,-रेफित्वा । क्त्वेत्येव,प्रथितः, प्रथितवान् । सेडिति किम् ? वञ्च,-वक्त्वा, मृष-मृष्ट्वा । ऊदित्वात्क्त्वायां वेटौ। विहितविशेषणादृफित्वेत्यत्र नलोपेऽपि कित्त्वाद्गुणो न भवति । क्त्वेत्यनेन कित्त्वप्रतिषेधे प्राप्ते विकल्पार्थं वचनम् ।। २४ ॥
न्या० स०-ऋवतृषमष०-संभवव्यभिचाराभावादिति-ऋत्तषमृषकृशां न संभवः वञ्चलुञ्चोर्न व्यभिचार इति, एतत्तु समुदितानां लक्षणम् ।