________________
१४४ ]
बृहवृत्ति-लघुन्याससंवलिते
[पाद-३, सूत्र-१३-१७
सूतेः पञ्चम्याम् ॥ ४. ३. १३ ॥
सूतेः पञ्चम्यां गुणो न भवति । सुवै, सुवावहै, सुवामहै । तिनिर्देशाद्यङ्लुपि गुणो भवत्येव,-सोषवाणि,-सोषवाव ॥ १३॥
व्युक्तोपान्त्यस्य शिति स्वरे ॥ ४. ३. १४ ॥
कृतद्वित्वस्य धातोरुपान्त्यस्य नामिनः स्वरादौ शिति प्रत्यये परे गुणो न भवति । नेनिजानि, अनेनिजम् , वेविषाणि, अवेविषम् , बेभिदीति, अबेभिदम् , मोमुदीति, अमोमुदम् , नतीति, अन तम्।
व्युक्तेति किम् ? वेद, वेदानि, अवेदम् । उपान्त्यस्येति किम् ? जुहवानि, बोमवीति, सोषवोति । शितीति किम् ? निनेज, विवेद,-बेभेदिषीष्ट । स्वर इति किम् ? नेनेक्ति, मोमोक्ति, नर्नति ।। १४॥
न्या० स०-दव्युक्तो०-संज्ञाशब्दत्वात् सूत्रत्वाद् वा तान्तं न पूर्वं निपतति ।
बेभेदिषीष्टेति-यङ लुपि कर्मण्याऽत्मनेपदं यङन्तात्तु गुणस्याप्राप्तिः, यङकारस्य 'स्वरस्य' ७-४-११० इति स्थानित्वात् ।
हिणोरषिति व्यौ ॥ ४.३, १५ ॥
हु इण् इत्येतयो मिनः स्वरादावपित्यविति च शिति परे यथासंख्यं वकारयकारादेशावियुवोरपवादो भवतः । जुह्वति, जुह्वतु, व्यतिजुह्वीरन् , व्यत्यजुह्वत, जुह्वव , कतीह जहानाः, यन्ति यन्तु, व्यतिप्रतियोरन् , मा स्म यन , यन् , यन्तौ, यन्तः । शितीत्येव,जुहवतु, ईयतुः, ईयुः । स्वरादावित्येव,-जुहुतः, इतः। अप्वितीति किम् ? पुस्,-अजुहवः, वित्-जुहवानि, अयानि । आयनित्यत्र तु ‘एत्यस्तेर्वृद्धिः' (४-४-३०) इति वृद्धिरेवापवादत्वात् ।। १५ ॥
न्या० स०-ह्विणोर०-व्यतिप्रतियोरनिति-ज्ञातार्थत्वात् 'क्रियाव्यतिहारे' ३-३-२३ इत्यात्मनेपदम् । ईयतुरिति-इणो द्वित्वे 'योऽनेकस्वरस्य' २-१-५६ इति यत्वापवाद 'इणः' २-१-५१ इतीय ततः 'समानानाम्' १-२-१ दीर्घः ।
इको वा ॥ ४. ३. १६ ॥
इंक् स्मरणे इत्यस्य स्वरादावविति शिति परे वा यकारो भवति । अधियन्ति, अधीयन्ति, अषियन्तु, अधीयन्तु, व्यत्यधियोरन् , व्यत्यधीयोरन् , मास्माधियन् , मास्माधीयन् , कतोहाधियानाः, कतीहाधीयानाः ।। १६ ।।
कुटादेर्डिद्वदणित् ॥ ४. ३. १७ ।। तुदाद्यन्तर्गणो वृत्पर्यन्तः कुटादिः,-कुटादेर्गणात्परो मिव णिजितः प्रत्ययो