________________
पाद-२, सूत्र-६३-६० ] श्रीसिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः
[ १२५
तनः क्ये ।। ४. २. ६३ ॥
तनोतेरन्तस्य क्य परे आकारो वा भवति । तायते, तन्यते । क्य इति किम् ? तन्तन्यते ॥ ६३ ।।
तो सनस्तिकि ॥ ४. २. ६४ ॥
सनित्येतस्य तिकि प्रत्यये परे तो लुगाकारौ वा भवतः । षण,-सतिः, सातिः, सन्तिः, षण भक्तौ सतिः, सातिः, सान्तिः । 'अहन्पञ्चम-' (४-१-१०७) इत्यादिना दीर्घः ।। ६४॥
वन्यापञ्चमस्य ॥४.२.६५॥
धातोः पञ्चमस्य वनि प्रत्यये परे आकारो भवति । आडिति आकारान्तरप्रश्लेषादननुनासिकोऽनुनासिकश्चायमादेशः । अन्यथा 'लि लौ" (१-३-६६ ) इति ज्ञापकादननुनासिक एव स्यात् ।
जन् विजावा, खन् विखावा, कम् दधिकावा, गम् अग्रेगावा, घुण ध्वावा, घूर्ण घूरावा, ओण अवावा, इवु व्याप्तौ च । वनि-'स्वोः प्वव्यञ्जने लुक' (४-४-१२२) इति वलोपे नकारस्यात्वे यावा। पुनराग्रहणं ताविति नवेति च निवृत्त्यर्थम् । डिस्करणं ध्वावेत्यादौ गुणनिषेधार्थम् ।। ६५ ।।
न्या० स०-वन्या-आकारान्तरप्रश्लेषादिति-आश्चाऽसावाङ च यद्वा आश्च आश्च तयोरनुबन्धी ङ् इति ।
अपाचायश्चिः क्तौ ॥ ४. २. ६६ ॥ अपपूर्वस्य चायतेः क्तिप्रत्यये चिरादेशो भवति । अपचितिः ॥६६।। ह्लादो हृद् क्तयोश्च ॥ ४. २. ६७ ॥
ह्लादतेः क्तक्तवत्वोः क्तौ च परतो ह्रद् आदेशो भवति । लन्न, हनवान् , प्रह्लन्नः प्रह्लनवान् , हत्तिः, प्रह्लत्तिः । क्तयोश्चेति किम् ? ह्लादित्वा ।। ६७॥
ऋल्वादेरेषां तो नोऽप्रः ।। ४. २. ६८ ॥
पूजितादृकारान्ताद्धातोर्वादिभ्यश्च परेषामेषां क्तिक्तक्तवतूनां तकारस्य नकार प्रादेशो भवति ।
तृतीणिः तीर्णः, तीर्णवान् , कृ-कोणिः, कीर्णः, कीर्णवान् , गृ-गोणिः, गीर्णः, गीर्णवान् , ल्वादि-लूनिः, लूनः, लूनवान् , धूनिः धूनः, धूनवान् , लोनिः, लोनः, लीनवान् ।