________________
बृहद्वृत्ति लघुन्यास संवलिते
न तिकि दीर्घश्च ॥ ४. २. ५१ ॥
rai fafe प्रत्यये लुग् दीर्घश्व न भवति । यन्तिः, रन्तिः, नन्तिः, गन्तिः, हन्तिः, मन्तिः, वन्तिः, तन्तिः । क्षणिति लाक्षणिकोऽयं णकारः तेन क्षन्तिरिति भवति । श्रन्यस्त्वौपदेशिकोऽयमिति मन्यते तन्मते क्षष्टिः । अन्तलोपे प्रतिषिद्धे 'प्रहन्पश्वम' - (४-१-१०७) इत्यादिना दीर्घत्वं प्राप्तं तदपि प्रतिषिध्यते । एषामित्येव - शान्तिर्भगवान् । तिकीति किम् ? यतिः, रतिः, ततिः ॥ ५९ ॥
१२४ ]
न्या० स०-न तिकि० - तेनक्षन्तिरितीति-नान्त प्रकृतेर्णत्वबाधनाय म्नामिति बहुवचनात् प्रथममेव नकारः, म्नामिति बहुवचनाण्णत्वं कृतमपि वर्गान्ते कर्त्तव्ये निवर्त्तते वा, अत्र सूत्रे यमादयो गमादयश्च गृह्यन्ते, न त्वनन्तरसूत्रोक्ताः द्वयोरपि प्राप्तेः संभवात् ।
[ पाद २, सूत्र - ५९-६२
आः खनि सनि-जनः ॥ ४.२.६० ॥
खनादीनां घुडादौ क्ङिति प्रत्यये परेऽन्तस्याकारादेशो भवति ।
खातः, खातवान् खात्वा खातिः, सन - 'षणूयी दाने' वनपण भक्तौ वा । सातः, सातवान् सात्वा, सातिः, जन्-जातः, जातवान् जात्वा जातिः । विङतीत्येव - चंखन्ति, संसन्ति, जंजन्ति ॥ ६०॥
1
"
न्या० स० - श्राः खनि-खात इति खायते स्म खन्यते स्मेति वा 'क्त' ५-१-१७४ इति वा क्ते 'वेटोऽपतः ४-४-६२ इडभावः । सात्वेति षणूयी दान इत्यस्यैवायं प्रयोगः, षण भक्तावित्यस्य सनित्वैव । चखन्तीत्यादि - तसि च चङ्घातः संसात: जंजातः, सनिसिस निषतीति, सनोतेः सनतेर्वा 'णिस्तोरेव' २-३-३७ इति नियमान्न षत्वम् ।
सनि ॥। ४. २. ६१ ॥
खनादीनां धुडादौ सनि परतोऽन्तस्यात्वं भवति । सिषासति, खनिजनोरिटा भवितव्यमिति धुडादिः सन्न भवति । घुटीत्येव - सिसनिषति - 'इवृध' - ( ४-४-४९ ) इत्यादिना वेट् । विङतीत्यसंभवादिह न संबध्यते ॥ ६१ ॥
ये नवा ॥ ४. २. ६२॥
खनादीनां ये क्ङिति प्रत्ययेऽन्तस्याकारो वा भवति । खायते, खन्यते, चाखायते, चंखन्यते, प्रखाय, प्रखन्य, सायते, सन्यते, सासायते, संसन्यते, प्रसाय, प्रसन्य, प्रसत्य, जायते जन्यते, जाजायते, जंजन्यते, प्रजाय, प्रजन्य । श्ये तु 'जा ज्ञाजनोऽत्यादौ' ( ४ - २ - १४ ) इति नित्यं जादेशः जायते ।
य इत्यकारान्त निर्देशादिह न भवति । खन्यात्, सन्यात् - अन्यथा योति क्रियेत । केचिदत्रापीच्छन्ति खायात्, सायात् । विङतीत्येव - सान्यम्, जन्यम् ॥६२॥
न्या स०- ये नवा - प्रसायेत्युभयोः प्रसन्येति भक्त्यर्थस्य प्रसत्येति तु दानार्थस्य तनादित्वेन न लोपात् ।