________________
११८ ]
बृहद्वृत्ति-लघुन्याससंवलिते
द-२, सूत्र-३६
मा भवानेजिजत् , याच,-प्रययाचत् । सेक-असिसेकत् , लोक-प्रलुलोकत , ढौकृ-प्रडुढौकत्, शासेरूदित्करणं यङ्लुपनिवृत्त्यर्थम्-अशाशसत । अन्ये स्वशाशासत् इत्यपीच्छन्ति । वदति स्म वीणा तां प्रायुक्त परिवादकः तमप्यन्यः प्रायुक्त अवीवदद्वीणां परिवादकेनेति तु णिजात्याश्रयणात सिद्धम् ॥३५।।
न्या० स०-उपान्त्यस्या०-नित्यमपीति-* कृताकृता % इति न्यायान्नित्यत्वं यथा मा भवानऽटिटदित्यादौ ह्रस्वत्वे कृतेऽकृते च द्वित्वं प्राप्नोतीति नित्यं ह्रस्वस्तु द्वित्वे कृते न प्राप्नोतीत्यऽनित्यः, न केवलं प्राक्तु स्वर इत्यपेरर्थः ।
गोनावमाख्यादिति-गौनौर्यद्वा गोसहिता नौः गोनौः, 'मयूरव्यंसक' ३-१-११६ इति मध्यपदलोपी समासः । स्थानिवद्भावेनेति-स्वमते तु 'स्वरस्य परे' ७-४-११० इति परिभाषाया अनित्यत्वमाश्रितमिति सूत्रपर्यन्ते वक्ष्यति ।
वचनसामर्थ्यादिति-अन्यथा यदि वृद्ध्यावादेशौ स्यातां, तदा उपान्त्यत्वाभावेन ह्रस्वत्वाभावात् वचननैरर्थक्यं प्राप्नोति ।
ण्युपान्त्यस्येति-णेरुपान्त्यस्तस्य तथाहि-णिङ इति स्थिते ऊकार उपान्त्यः । अचकाङक्षदिति-वचनादेकेन वर्णेन व्यवधानं न त्वऽनेकेन ।
उपान्त्यग्रहणमिति-येन नाव्यवधानमिति न्यायादेकेन वर्णेन व्यवहितोऽपि स्वरो ह्रस्वस्य स्थानी भविष्यति किमुपान्त्यग्रहणेनेत्याह उत्तरार्थमिति । 'ऋवर्णस्य' ४-२-३७ इत्यत्रेत्यर्थः, अन्यथा तत्रान्त्यस्यापि ऋकारस्य ऋत् स्यात् , न केवलमुत्तरार्थमिहार्थं, च, अन्यथा लीलवदित्यत्र वचनसामर्थ्यादऽकृतायां वृद्धौ ह्रस्वः स्यात् , न चान्तरङ्गत्वावृद्धिः, निरवकाशत्वादस्य, वृद्धौ सावकाशत्वमिति न वाच्यं यतो मुख्याऽभावे येन नाव्यवधानमाश्रीयेतेति ।
स्थानिवद्भावेन न सिध्यतीति-अयमर्थः 'स्वरस्य परे' ७-४-११० इति स्वरादेशः स्थानी, अत्र तु स्वरव्यंजनादेशः ।
अशशारत्-शारण दो अस्मादऽदन्तात् णिच् ।
अशुशूरत्-शूरणि वि० अस्मादजन्तात् 'णिज् बहुलं' ३-४-४२ णिच् ततोऽद्यतनी, अन्यथा आत्मनेपदित्वादऽचं विना परस्मैपदं न स्यात् ।
अनित्यत्वख्यापनार्थ वचनमिति-कलिहलिवर्जनादेव सन्वदादिकार्येऽस्याऽनित्यत्वं सिद्धं तहि अत्यरराजदित्यादौ भेदपक्षे फलम् । प्रथमं लोपेनैवेति-ततश्च समानलोपित्वात् ह्रस्वत्वं न प्राप्नोतीति भावः ।
असिसेकदिति-येषां मते षोपदेशस्तन्मते असिषेकदिति । भ्राज-भास-भाष-दीप-पीड-जीव-मील-कण-रण-बण-भण-श्रण-के
हेठ-लुट-लुप-लपां नवा ॥ ४. २. ३६ ॥ एषां ऊपरे णौ उपान्त्यस्य ह्रस्वो वा भवति । भ्राज्,-अविभ्रजत , अबभ्राजत् , भास्-अबोभसव , अबभासत , भाष-अबीभषत् ,