________________
पाद-२, सूत्र-३५ ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः
[ ११७
एकोपसर्गस्यानुपसर्गस्थ च छदेर्घपरे णौ ह्रस्वो भवति । प्रच्छाद्यतेऽनेनेति प्रच्छदः, परिच्छदः, उपच्छदः, छाद्यतेऽनेनेति छदः, सप्त छदा अस्य सप्तच्छदः, उरसश्छदः उरश्छदः, एवं दन्तच्छदः । एकोपसर्गस्य चेति किम् ? समुपच्छादः, समुपामिच्छादः । घ इति किम् ? प्रच्छादनम् , तनुच्छादनम् ।।३४॥
उपान्त्यस्यासमान-लोपिशास्वृदितो ॥ ४. २. ३५ ॥
समानलोपिशासूक्ऋदनुबन्धवजितस्य धातोरुपान्त्यस्य ङपरे गौ ह्रस्वो भवति । अपीपचत् , अदीदपत् , अचीकरत , अलीलवत् । अत्र नित्यमपि द्विर्वचनं बाधित्वा प्रागेव ह्रस्वो भवति प्रोणेऋदित्करणज्ञापकात् । तद्धि मा भवानोणिण इत्यत्र ऋदित्त्वादुपात्त्यह्रस्वत्वप्रतिषेधो यथा स्यादित्येवमर्थ क्रियते ।
यदि चात्र नित्यत्वात्पूर्वमेव द्वितीयद्वित्वं स्यात्तदानुपान्त्यत्वादेव ह्रस्वत्वस्याप्राप्तिरिति कि तन्निवृत्त्यर्थेन ऋदित्करणेन । एवं माभवानटिटव मा भवानशिशत् इत्यादि सिद्धं भवति, उपरे णौ इति च न धातुविशिष्यते किं तहि तदुपान्त्य इति णेः पूर्वस्याधातुत्वेऽपि ह्रस्वो भवति, तेन गोनावमाख्यत् अजूगुनत् ।
केचिदौतः स्थानिवद्धावेनोपान्त्यत्वाभावाद् ह्रस्वं नेच्छन्ति-तेनाजुगोनत् । रणावित्येव,-डे उपान्त्यस्यैतावत्युच्यमाने अलीलवदित्यादावन्तरङ्गावपि वृद्ध्यावादेशावदीदपदित्यादौ च प्वागमं च बाधित्वा वचनसामर्थ्यात् ण्युपान्त्यस्य स्वरस्य ह्रस्वः प्रसज्ज्येत । अपीपचदित्यादौ ण्युपान्त्यस्वराभावान्न स्यात् । णिग्रहणानुवृत्तौ तु ङपरे णावुपान्त्यस्य ह्रस्व इति सर्वत्र ह्रस्वः सिद्धो भवति ।
ङ इति किम् ? कारयति पाचयति । उपान्त्यस्येति किम् ? अचकाङ्क्षत्-येन नाव्यवधानमिति न्यायेनैव सिद्धे उपान्त्यग्रहणम् उत्तरार्थम् । असमानलोपिशास्वृदित इति किम् ? राजानमतिकान्तवानत्यरराजत् । लोमान्यनुमृष्टवान् अन्वलुलोमत् , स्वामिनमाख्यत् असस्वामत् , तादृशमाख्यत् अततादत् , मातरमाख्यत् अममातत् , यत्रान्त्यस्वरादिलोपस्तत्र स्थानिवद्भावेन न सिध्यतीति वचनम् । यत्र तु स्वरस्यैव लोपस्तत्र स्वरादेशत्वात् स्थानिवद्भावेनैव सिध्यति । मालामाख्यत् अममालत् , मातरमाख्यत् अममातत् , प्रशशारत् , अशुशूरत्।
ननु यत्रापि स्वरव्यञ्जनलोपस्तत्रापि अवयवावयविनोरभेदनयेन स्वरादेश एवेति स्थानिवद्भावेनैव सिध्यति किमसमानलोपिवचनेन ? सत्यम् ,-स्थानिवद्धावस्य अनित्यत्वख्यापनार्थं वचनम्-तेन वास्या परिच्छिन्नवान् पर्यवीवसत् , स्वादु कृतवान् असिस्वददित्यादि सिद्धम् । अत्रेकारोकारयोः 'नामिनोऽकलिहलेः' ( ४-३-५१) इति वृद्धौ कृतायामन्त्यस्वरादिलोपादसमानलोपित्वम् ।
ननु च परत्वात् प्रथमं लोपेनैव भवितव्यम् ? नैवम् , कलिहलिवर्जनात् परमपि लोपं वृद्धिर्बाधते-अत एव तत्र कलिहलिवर्जनमर्थवत् । शासू,-अशशासत् , प्राशासोऽपीच्छत्यन्यः-आशशासत् । ऋदिति, ओण-मा भवानोणिणत् , ओख-मा भवानोखिखत् , एज