________________
- ६४ ]
बृहद्वृत्ति-लघुन्यास संवलिते
[पाद १, सूत्र-६९-७२
न्या० स०-अस्यादे०-'लुगस्यादेत्यपदे' २-१-११३ इत्यस्याऽपवादः । उत्तरार्थमिति-इह तु परोक्षाया अन्यस्मिन् यङादौ प्रत्यये द्वित्वे सति आदावकारस्याऽसम्भवात् ।
अनातो नश्चान्त ऋदाद्यशौसंयोगस्य ॥ ४. १. ६१ ॥
ऋकारादेरश्नोतेः संयोगान्तस्य च धातोः परोक्षायां द्वित्वे पूर्वस्यादेरकारस्यानात प्राकारस्थानेऽनिष्पन्नस्याकारो भवति कृताकारात्त्वस्मान्नोऽन्तश्च । ऋदादि,-आनधतुः,पानधुः आनजे, प्रानजाते, प्रानजिरे, अशो, आनशे, आनशाते, आनशिरे । संयोग,-आनर्च, प्रानचतुः आनञ्ज, आनञ्जतुः, आनङ्ग, प्रानङ्गतु, आनर्छ, आनछेतुः। ऋदादेरिति किम् ? पार, आरतुः । अशावित्यौकारः किम् ? अश्नातेर्माभूत् , प्राश, आशतुः । संयोगस्येति किम् ? आट, आटतुः । अनात इति किम् ? आछु, आयामे-आञ्छ, प्राञ्छतुः । कश्चिदत्रापीच्छति । आनाञ्छ, आनाञ्छतुः आनाञ्छुः ।। ५९॥
न्या० स०-अनातो न-न विद्यते आत् स्थानितयाऽस्यो मानछेति-प्रथमं द्वित्वं तत: 'स्कृच्छृतः' ४-३-८ इति गुणः । आरेति ऋक् ऋ प्रापणे वा णव द्वित्वं 'ऋतोऽत्' ४-१-३८ 'अस्यादेः, ४-१-६८ इति आकारस्ततो 'नामिनोऽकलि' ४-३-५१ इति वृद्धिः, आद्यन्तवदेकस्मिन्नित्यपि न यतो यथाऽन्त्यव्यपदेशे ऋदादित्वं एवमादिव्यपदेशे ऋदन्तत्वमपि तत ऋत् आदिरेव यस्येत्यवधारणेनाऽस्य निरासः ।
भूस्वपोरदुतौ ॥ ४. १. ७० ॥
भूस्वप् इत्येतयोः परोक्षायां द्वित्वे सति पूर्वस्य यथासंख्यमकारोकारौ भवतः । बभूव, बभूवतुः, बभूवे चैत्रेण, अनुबभूवे कम्बलः साधुना, सुष्वाप, सुष्वपिथ । परोक्षायामित्येव,-बुभूपति, बोभवाचकार । केचित्त कर्तर्येव भुवोऽकारमिच्छन्ति न भावकर्मणो तेन बुभूवे चैत्रेण, अनुबुभूवे कम्बलः साधुनेत्येव भवति ।।७।।
___ न्या० स० ज्याव्येव्यधि०-संविव्यायेति-'यजादिवश्वचः' ४.१-७२ इति स्वृद्बाध. नार्थमिकारस्यापि इः । विव्यचिथेति-'कुटादेङिद्वत्' ४-३-१७ इत्यनेनेटो ङित्वेऽपि 'व्यचोऽनसि' ४-१-८२ इति न य्वृत् , समासान्तागम इति न्यायात् कुटादिगणनिर्दिष्टस्य ङित्वस्याऽनित्यत्वात्।
ज्याव्येव्यधिव्यचिव्यथेरिः ॥ ४. १. ७१. ॥
एषां परोक्षायां द्वित्वे सति पूर्वस्येकारो भवति । ज्या,-जिज्यौ, जिज्यिथ । व्येगसंविव्याय, संविव्ययिथ । व्यध्-विव्याध, विव्यधिथ । व्यच् ,-विव्याच, विव्यचिथ । व्यथ - विव्यथे, विव्यथाते, विव्यथिरे परोक्षायामित्येव,-वाव्यथ्यते ।।७१॥
यजादिवशवचः सस्वरान्तस्था वृत् ॥ ४. १. ७२ ॥ यजादीनां वशवचोश्च परोक्षायां द्वित्वे सति पूर्वस्य सस्वरान्तस्था म्वृत् इकार