________________
६१४ ]
बृहवृत्ति-लघुग्याससंवलिते
[पा० २. सू० १५३-१५५.]
यत्परिमाणमस्य यावान्, एवं तावान् ? एतावान् ? 'यत्तदेतदो डावादिः' [७. १. १४६.] इति डावतौ भविष्यति ।। १५२ ।।
इदं किमीत्की ॥ ३. २. १५३ ॥ ___इदंशब्दः किंशब्दश्च दृक्दशदक्षेषत्तरपदेषु परेषु यथासंख्यमीकाररूपः कीकाररूपश्च भवति । अयमिव दृश्यते ईदृक्, ईदृशः, ईदृक्षः, क इव दृश्यते । कीदृक्, कीदृशः, कीदृक्षः, कथं इदं किं वा परिमाणमस्य इयान् कियान् ? 'इदंकिमोऽतुरिय किय चास्य' [७. १. १४८.] इति भविष्यति ।। १५३ ।।
अनञः क्त्वो यप् ॥ ३. २. १५४ ॥
नवजितादव्ययात्पूर्वपदाद्यत्परमुत्तरपदं तदवयवस्य क्त्वाप्रत्ययस्य यवादेशो भवति । प्रकृत्य, प्रहृत्य, उच्चैःकृत्य, नानाकृत्य । निज इति10 किम् ? अकृत्वा, अहृत्वा, परमकृत्वा, अनञ इति नसदृशमव्ययं गृह्यत इति इह नजोऽनव्ययाच्च न भवति । उत्तरपदस्येत्येव ? अलं कृत्वा, खलु कृत्वा ।। १५४ ।।
न्या० स०--अनञः क्त्वो०। उच्चैःकृत्य इत्यत्र 'कृगोऽव्यय' [ ५. ४. ८४. ] इति क्त्वा। नानाकृत्य इत्यत्र तु 'स्वाङ्गतश्च्व्य र्थ' [५. ४. ८६. ] इत्यनेन । परम-15 कृत्वेति । परमं च तत् कृत्वा चेति कार्य । 'सन्महत्' [ ३. १. १०७.] इति समासः। परमं करणं पूर्व वा, परमस्य करणमित्यत्र तु समासो न स्यात् 'तृप्तार्थपूरण' [३.१.८५.] इत्यादावऽव्ययद्वारेण निषिद्धत्वात् षष्ठीसमासस्य ।। ३. २. १५४ ।।
पृषोदरादयः॥ ३. २. १५५ ॥
पृषोदर इत्येवंप्रकाराः शब्दा विहितलोपागमवर्णविकाराः शिष्ट:20 प्रयुज्यमानाः साधवो भवन्ति । पृषदुदरमुदरे वास्य पृषोदरः, पृषत उदरं पृषोदरम्, पृषत उद्वानं पृषोद्वानम्, एवं पृषोद्धारम्,-अत्र तकारलोपो निपात्यते । जीवनस्य जलस्य मूतः पुटबन्धः, जीमूतः, अत्र वनस्य लोपः, वारिणो वाहको बलाहकः, अत्र पूर्वपदस्य बः उत्तरपदादेश्च ल आदेशः, प्राध्यायन्ति तमिति ाढयः, अत्र ध्यस्य ढ्यादेशः, कृ ण दास्यते नास्यते दभ्यते25 च खलि, दुष्टो दासो नासो दम्भ इति वा दूडासः, दूणासः, दूडभः, दुष्टं ध्यायति दूढयः, एषु पूर्वपदस्य दुसो दूभावः उत्तरपदादेश्वडत्वणत्वढत्वानि दम्भेनलोपश्च ।।