SearchBrowseAboutContactDonate
Page Preview
Page 646
Loading...
Download File
Download File
Page Text
________________ [पा० २. सू० १५०-१५२.] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ६१३ स्थान, वर्ण, वयस्, वचन, ज्योतिस्, जनपद, रात्रि, नाभि, बन्धु, पक्ष, गन्ध, पिण्ड, देश, कर, लोहित, कुक्षि, वेणि इति धर्मादयः । बहुवचनमाकृतिगणार्थम् । अन्ये तु धर्मादिषु वचनान्तेषु नवसु विकल्पमिच्छन्ति । सधर्मा, समानधर्मा, सजातीयः, समानजातीयः । सनामा, समाननामा, सगोत्रः, समानगोत्रः, सरूपः, समानरूपः, सस्थानः समानस्थानः, सवर्णः, समानवर्णः, 5 सवयाः, समानवयाः, सवचनः, समानवचनः । अपरे तु नामादिषु बन्धुपर्यन्तेषु द्वादशस्वेव समानस्य सभावं नित्यमिच्छन्ति अन्येषु तु नेच्छन्त्येव । सधर्मसपक्षादिशब्दांस्तु सहशब्देन समानपर्यायेण कृतसादेशेन साधयन्ति, समानशब्दप्रयोगे तु समानधर्मा, समानपक्षः समानजातोय इत्याद्येव मन्यन्ते । कथं समानोदरे जात:-सोदर्यः ? समाने तीर्थे वसति सतीर्थ्य इति, ? “सोदर्यसमा-10 नोदयौं' [६. ३. १११.] इति 'सतीर्थ्यः' [६. ४. ७८.] इति च निपातनाद्भविष्यतः ।। १४६ ।। सब्रह्मचारी ॥ ३. २. १५० ॥ . सब्रह्मचारीति निपात्यते । समानो ब्रह्मचारी समाने ब्रह्मण्यागमे गुरुकुले वा व्रतं चरतीति वा सब्रह्मचारी, निपातनादेव व्रतशब्दस्यापि15 लोपः ।। १५० ।। हगहशहक्षे॥ ३. २. १५१ ॥ दृदृशदृक्ष इत्येतेषूत्तरपदेषु समानस्य सादेशो भवति । समान इव दृश्यते सदृक्, सदृशः, सदृक्षः। दृशदृक्षसाहचर्यात् टक्सक्प्रत्ययसहचरितक्विबन्तस्यैव दृशो ग्रहणात् इह न भवति, समाना दृक् समानदृक् ।। १५१ ।। 20 अन्यत्यदादेरा ॥ ३. २. १५२ ॥ अन्यशब्दस्य त्यदादेश्च दृक्दृशदृक्षेषूत्तरपदेषु आकारोऽन्तादेशो भवति । अन्य इव दृश्यते अन्यादृक्, अन्यादृशः, अन्यादृक्षः, एवं त्यादृक् त्यादृशः, त्यादृक्षः, तादृक्, तादृशः, तादृक्षः, यादृक्, यादृशः, यादृक्ष, अमूदृक्, अमूदृशः, अमूदृक्षः, भवादृक्, भवादृशः, भवादृक्षः, त्वादृक्, त्वादृशः, त्वादृक्षः, 'मादृक्,25 मादृशः, मादृक्षः, एकादृक्, एकादृशः, एकादृक्षः । द्वादृक्, द्वादृशः, द्वादृक्षः, युष्मादृक्, युष्मादृशः, युष्मादृक्षः, अस्मादृक्, अस्मादृशः, अस्मादृक्षः । कथं
SR No.032128
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages650
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy