________________
[पा० २. सू० ११८-१२०.] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ६०३
त्वसंभवात्तदन्तग्रहणम् । केचित्तीर्थंकरः तीर्थकर इत्यत्रापि विकल्पमिच्छन्ति, तदर्थं नवाऽखित्कृदन्ते इति रात्रेरिति च योगो विभजनीयः ।। ११७ ।।
न्या० स०--नवाखित् । रात्रिसुखमिति । अत्र सुखशब्दोऽव्युत्पन्नो न कृदन्त इति मोऽन्तो न भवति ।। ३. २. ११७ ।।
10
धेनो व्यायाम् ॥ ३. २. ११८ ॥
धेनुशब्दाद्भव्याशब्दे उत्तरपदे मोऽन्तो वा भवति । धेनुश्चासौ भव्या च धेनुंभव्या, धेनुभव्या। केचित्तु नित्यमिच्छन्ति ।। ११८ ।।
न्या० स०--धेनोभव्या०। धेनुभव्या इति । धेनोविशेषणत्वेन विवक्षितत्वात् विशेष्यत्वेऽपि वा धेनोभव्यायामिति भव्यामिति भव्याशब्दस्य निमित्तत्वेनोपादानात् धेनोः पूर्वनिपातः ।। ३. २. ११८ ॥
अषष्ठीतूतीयादन्याहोऽर्थे ॥ ३. २. ११६ ॥
अषष्ठयन्तादतृतीयान्ताच्चान्यशब्दादर्थशब्द उत्तरपदे दोऽन्तो वा भवति । अन्यश्चासौ अर्थश्च, अन्योऽर्थोऽस्येति वा अन्यदर्थः, अन्यार्थः, अन्यस्मै इदम्-अन्यदर्थम्, अन्यार्थम्, अन्यस्मिन्नर्थः अन्यदर्थः, अन्यार्थः, अषष्ठीतृतीयादिति किम् ? अन्यस्यार्थः अन्यार्थः, अन्येनार्थः अन्यार्थः ।। ११६ ॥ 15
आशीराशास्थितास्थोत्सुकोतिरागे ॥ ३. २. १२० ॥
वेति निवृत्तम् पृथग्योगात् । अषष्ठीतृतीयान्तादन्यशब्दादाशिस्, आशा, आस्थित, आस्था, उत्सुक, ऊति, राग इत्येतेषूत्तरपदेषु दोऽन्तो भवति । अन्या आशीः अन्यदाशीः, अन्या आशा अन्यदाशा, अन्यमास्थितः अन्यदास्थितः, अन्या आस्था अन्यदास्था, अन्यस्मिन् उत्सुकः अन्यदुत्सुकः, अन्या20 ऊतिः अन्यदूतिः, अन्यत्र रागः अन्यद्रागः, अषष्ठीतृतीयादित्येव ? अन्यस्याशीः अन्याशीः, अन्येनास्थितः अन्यास्थितः ।। १२० ।।
न्या० स०--आशीरा। आश्यतीति 'उपसर्गादातो' [ ५. १. ५६. ] आश्यत्यऽनया वा 'उपसर्गादातः' [५. ३. ११०.] ।। ३. २. १२० ।।