________________
६०२ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० २. सू. ११६-११७.]
गिलगिल इत्यत्र गिलगिलेति निर्देशादेव मोऽन्तो न संभवति । अगिलादिति । तु निषेधो गिलान्तस्यापि निवृत्त्यर्थः ।। ११५ ।।।
न्या० स०-अगिला। तिमिगिल इति बाहुलकात् 'नाम्युपान्त्य' [५. १. ५४.] इति कः, 'मूलविभुजादयः' [५. १. १४४.] इति वा। गिलगिलशब्दे इति । गिलगिल इत्येवंरूपस्याखण्डस्य विद्यमानत्वात् । नन्वऽगिलादित्यस्य गिलगिल इति प्रत्युदाहरणं 5 युक्त, अत्र गिल: पूर्वपदमस्तीति । तिमि गिलगिल इत्यत्र तु न गिलः पूर्वपदं किन्तु गिलान्तः शब्द इत्याह-गिलं गिलतीत्यादि । गिलगिलेति निर्देशादेव गिलगिले मोऽन्तो नास्तीति न तदर्थमगिलादित्यऽतस्तदन्तस्यैव प्रतिषेधार्थम् । अन्यथाऽऽनर्थक्यं स्यादिति । गिलान्तस्यापीति 'अपि' शब्द उक्तसमुच्चये न केवलं गिलान्तस्याऽपिशब्दात् केवलादपि मोऽन्तो न भवतीति । अपि शब्दोऽवधारणेऽन्यथा वर्जनानर्थक्यमिति तु न्यासः । यद्10 वागिलस्येति विशेषणत्वात् तदन्तस्य निषेधः, अन्यथोत्तरपदसन्निधापितपूर्वपदस्य केवलस्यैव निषेधः स्यात् । यथा दिग्धपादोपहतः। गिलस्य गिलः गिलं गिलति गिलगिल इत्यत्र तु आद्यन्तवदुपचारात् ॥ ३. २. ११५ ।।
भद्रोष्णात्करणे ॥ ३. २. ११६ ॥
भद्रशब्दादुष्णशब्दाच्च करणशब्दे उत्तरपदे मोऽन्तो भवति । भद्रस्य15 करणं भद्रकरणम्, एवमुष्णंकरणम् ।। ११६ ।।
न्या० स०--भद्रोष्णा। भद्रकरणमिति कृतिः करणं क्रियतेऽनेनेति वा ततो भद्रोष्णयोः कर्मषष्ठ्यन्तयोः 'कृति' [ ३. १.७७. ] इति समासः ।। ३. २. ११६. ।।
नवारिवत्कृदन्ते रात्रेः ॥ ३. २. ११७ ॥
रात्रिशब्दस्य खिद्वजितकृदन्ते उत्तरपदे मोऽन्तो वा भवति । रात्रौ20 चरति रात्रिचरः, रात्रिचरः, रात्रिचरी, रात्रिचरी, रात्रावट:, रात्रिमट:, रात्र्यटः, रात्रिमटति-रात्रिमाटः, रात्र्याटः, रात्रेः करणम्-रात्रिकरणम्, रात्रिकरणम् । खिद्वर्जनं किम् ? रात्रिमन्यमहः, 'खित्यनव्यय'[३. २. १११.] इत्यादिना नित्यमेव भवति । कृदन्त इति किम् ? रात्रिसुखम् । अन्तग्रहणं किम् ? रात्रिरिवाचरति क्विप्, लुक्, तृच्,25 रात्रयिता। इदमेवान्तग्रहणं ज्ञापकम् इहोत्तरपदाधिकारे प्रत्ययग्रहणे प्रत्ययस्यैव ग्रहणं, न तदन्तस्य, तेन 'कालात्तनतरतम'-[३. २. २४.] इत्यादौ प्रत्ययमात्रस्यैव ग्रहणं सिद्धम्, 'न नाम्येकस्वरात् खिति'-[३. २. ६.] इत्यादौ