________________
बृहद्वृत्ति - लघुम्याससंवलिते
[पा० २. सू० ६२-६३.]
स्त्रियामाप् न भवति । एवं यथा तदेत्यादि । परत्वादिति कल्याणीप्रियेत्यादौ 'नाप्रियादो' [ ३. २. ५३. ] इत्यादिप्रतिषेधः सावकाशः । भवत्पुत्र इत्यादौ त्वयं विधिः सर्वा प्रियास्य सर्व्वप्रिय इत्यादौ तूभयप्राप्तौ द्वयोरन्यत्र सावकाशत्वे परत्वादनेन पुंरंभाव इत्यर्थः । कन्यापुरमिति कन्याशब्दो व्याकरणे कन्य इति पुमानपि प्रसिद्ध इति 'परत: स्त्री' [ ३. २. ४६. ] इति । अस्यादाविति किमिति न च स्याद्युत्पत्तेः प्रागेवात्र पुभाव: 5 कथं न भवतीति वाच्यं । श्रस्यादाविति वचनात् । यतः परः स्यादिः प्रयुज्यते तस्य पुं भावो न भवति । अन्यथाऽस्यादावित्यस्यानर्थक्यं स्यात् । प्रथोत्तरपदे परे इत्यनुवर्त्तनात् सर्वस्यै दक्षिणपूर्व इत्यादी निमित्तभूतस्योत्तरपदस्याभावात् पुं भावो न भविष्यति किमऽस्यादावित्यनेन ? सत्यं, अत एव सर्वस्यै इत्यादौ निमित्तभूतस्योत्तरपदस्याभावात् पुभावनिवृत्त्यर्थादऽस्यादाविति वचनादत्रोत्तरपद इति नास्तीति ज्ञायते । तेन यथेत्यादावपि 10 पुभावः सिद्धः । न च अस्याः पुत्र इत्याक्रोशे षष्ठ्या प्रलुप्युत्तरपदे पुरं भावनिषेधार्थंमस्यादाविति वाच्यं, अत्र विभक्त्या व्यवधानादुत्तरपदे सर्वाद्यऽभावात् । एतदर्थत्वे च ङसः प्रतिषेध एव कर्त्तव्यः स्यान्नास्यादाविति । दक्षिणोत्तर पूर्वारणामिति 'न सर्वादि: ' [१. ४. १२.] इति सर्वादित्वाभावः । सर्वस्यै । दक्षिणपूर्वस्यै इत्युक्तं ततश्चात्र पुंवद्भावः स्वयमेव न भविष्यति । सर्वादेङ स्पूर्वेति ङस्विधानात्, अन्यथा प्राबन्तेत्वाभावात् स15 न स्यात् ? उच्यते, यदा सर्वाशब्दादऽग्रे भ्यस् तदापि पुंवत् माभूत् इत्यस्यादिग्रहणम् ।। ३. २. ६१ ।।
५७८ ]
मृगक्षीरादिषु वा ॥ ३. २. ६२ ॥
मृगक्षीरादिसमासशब्देषु परतः स्त्रीलिङ्गमनेकार्थेऽस्त्र्यर्थे चोत्तरपदे पुंवद्वा भवति । मृग्याः क्षीरं मृगक्षीरम् - मृगीक्षीरम्, एवं मृगपदम्, मृगीपदम्, 20 मृगशावः, मृगीशावः, कुक्कुटाण्डम्, कुक्कुटचण्डम्, मयूराण्डम्, मयूर्यण्डम्, काकाण्ड, काक्यण्डम्, काकशावः, काकीशावः । पुंस्त्रीलिङ्गपूर्वपदभेदेन समासविवक्षायां सूत्रानारम्भे मृगक्षीरादयो न सिद्ध्यन्ति, मृगक्षीरादयः प्रयोगतोऽनुसर्तव्याः ।। ६२ ।।
न्या० स० - - मृगक्षीरा० । पुंस्त्रीलिङ्ग ेति ननु मृगस्य पदं मृगपदं मृग्याः पदं 25 मृगीपदमिति कृते सेत्स्यति किमर्थमिदमित्याशङ्का । मृगक्षीरादय इति प्रादिशब्दात् मयूराण्डमित्यादि । एतच्च मृग्याः क्षीरमिति कृते द्रष्टव्यम् ।। ३. २. ६२ ।।
दुदित्तरतमरूपकल्पबुवचेलड्गोत्रमतहते वा ह्रस्वश्च
।। ३. २. ६३ ॥
ऋदिदुदिच्च परतः स्त्रीलिङ्गशब्दस्तरादिषु प्रत्ययेषु ब्रुवादिषु च30