________________
५७६ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० २. सू० ५६.]
न्या० स०-रिति०। ननु रानुबन्धा ये प्रत्ययाः ते पानुबन्धाः क्रियन्तां ततश्च 'क्यङ मानि०' [ ३. २. ५०. ] इति पुवद्भावसिद्धौ रितीति सूत्रं न कार्यम् ? सत्यं, यदि पानुबन्धाः क्रियन्ते तदा माथुरी प्रकारोऽस्या इति कृते 'तद्धितः स्वर' [३. २. ५५.] इति निषेधः प्राप्नोति तद्बाधनार्थं विधीयते। अप्राप्तप्रापणार्थोऽयमारम्भः। ननु मद्रकजातीया इत्यादिषु 'तद्धिताककोपान्त्य' [ ३. २. ५४. ] इत्यादिभिः 5 कथं पुवनिषेधो न भवति ? उच्यते, सर्वबाधनार्थं चैतत् वचनमन्यथा क्यङ मानिरित्पित्तद्धिते इत्येकमेव योगं कुर्यात् ।। ३. २. ५८ ।।
त्वते गुणः ॥ ३. २. ५६ ॥
परतः स्त्र्यनूङ् गुणवचनः शब्दस्त्वत इत्येतयोः प्रत्यययोः परयोः पुमान् भवति । पव्याः भावः पटुत्वम्, पटुता, एन्याः भावः एतत्वम्, एतता,10 श्येन्याः भावः-श्येतत्वम्, श्येतता। त्वत इति किम् ? पट्वीरूप्यम्, पट्वीमयम् । गुण इति किम् ? कठीत्वम्, कठीता, दत्तात्वम्, दत्ताता, कीत्वम्, कीता। केचित्तु जातिसंज्ञाजितस्य विशेषणमात्रस्य पुंवद्भावमिच्छन्ति,पाचिकायाः भावः-पाचकत्वं, पाचकता, मद्रिकायाः भावः-मद्रकत्वम्, मद्रकता, आनुकूलिक्याः भाव प्रानुकूलिकत्वम्, प्रानुकूलिकता, पाक्षिक्याः-आक्षिकत्वम्,15 आक्षिकता, द्वितीयायाः द्वितीयत्वम्, द्वितीयता, पञ्चम्याः पञ्चमत्वम्, पञ्चमता, माथुर्या:-माथुरत्वम् माथुरता, स्रोग्घ्न्याः -स्रोग्घ्नत्वम्, स्रोग्नता, चन्द्रमुख्या:-चन्द्रमुखत्वम्, चन्द्रमुखता, सुकेश्याः -सुकेशत्वं, सुकेशता । सैन्याः श्रियामनुपभोगनिरर्थकत्व-मिथ्यापवादममृजन् वननिम्नगानाम् । सस्नुः पयः पपुरनेनिजुरम्वराणि, जक्षुर्बिसन्धृतविकाशिबिसप्रसूनाः ।। १ ।।20 तदवितथमवादीर्यन्मम त्वं प्रियेति प्रियजनपरिभुक्तं यदुकलं दधानः । तदधिवसति मा गाःकामिनां मण्डनश्रीव्र जति हि सफलत्वं वल्लभालोकनेन।।२।।
तथा-रसवत्या धूमवत्त्वम्, भुवस्तृणवत्त्वम् शालाया दण्डित्वमित्यादौ ।। ५६ ।।
न्या० स०-स्वते गुरगः। अनुकूलं वर्तते 'तं प्रत्यनोलोम' [७. ४. २८. 25 इति इकण् । अत्र यथा 'भावे त्वतल' [७. १. ५५.] इति विहितस्तल् गृह्यते तथा 'देवात्तल'