________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ५७५
वृन्दारिका च गार्ग्यवृन्दारिका, -कपोतपाक एव कापोतपाक्यः स्त्री चेत्, कापोतपाका, सा चासौ वृन्दारिका - च कापोतपाक्यवृन्दारिका, कुञ्जस्यापत्यं कौञ्जायन्यः स्त्री चेत् कौञ्जायनी, सा चासौ वृन्दारिका च-- कौञ्जायन्यवृन्दारिका, अङ्गस्यापत्यानि श्रङ्गाः, स्त्रियश्चेदाङ्गयः, ताश्च ता वृन्दारिकाश्च अङ्गवृन्दारिकाः, एवं गर्गवृन्दारिकाः । इडविड्, पृथ्, दरद्, उशिज् एते 5 जनपदशब्दाः क्षत्त्रियवाचिनः एभ्योऽपत्यप्रत्ययस्य स्त्रियां लुपि, इडविट् चासौ वृन्दारिका चेत्यादिविग्रहे-- ऐडविडवृन्दारिका, पार्थवृन्दारिका, दारदवृन्दारिका, शिजवृन्दारिका इति भवति । परतः स्त्रीत्येव ? खट्वावृन्दारिका, अनूङित्येव ? ब्रह्मबन्धूवृन्दारिका ।। ५७ ।।
[पा० २. सू० ५८. ]
न्या० स० -- पुंवत् कर्म्म० । पुंवत् ग्रहणं किमर्थं यतो न कर्म्मधारये इति 10 क्रियते ततः कर्म्मधारये पुवन्न न भवति अपि तु भवत्येव पाश्चात्यसूत्रात् नत्रिति वर्त्तते ? उच्यते, उत्तरार्थं कृतम् । लाक्षिकबृहतिका इति प्ररक्तविकार इत्यनयाऽपि व्यावृत्त्या सिद्धमिदं तत्कथमत्र दर्शितम् ? उच्यते, यदि 'तद्धितः स्वरवृद्धि' [ ३. २.५५ ] इति निषेधः क्रियते तदानीं सिद्ध्यति व्यावृत्त्या । यदा तु तद्धिताककोपान्त्येति निषेधः प्राप्नोति तदाऽनेनापि पुवन्न स्यादिति दर्शितम् । सर्वत्र जातिलक्षणङीबाघको वृन्दारिकाशब्दे 15 अजादित्वादाप् । 'द्व्येषसूत पुत्र वृन्दारकस्य' [ २.४. १०६.] इति विकल्पेन इत्वं भवति । कापोतपाका इति कपोतं पचति प्रण । अत्राणलक्षणं जातिनिमित्तं वा ङीप्रत्ययं बाधित्वा ‘अजादेः' [२. ४. १६. ] इत्याप् ।। ३. २. ५७ ।।
रिति ॥ ३.२.५८ ॥
परतः स्त्र्यनूङ् रिति प्रत्यये जातीये देशीये च पुंवद्भवति । पट्वी 20 प्रकारोऽस्याः पटुजातीया, ईषदपरिसमाप्ता पट्वी पटुदेशीया, मद्रकजातीया, मद्रकदेशीया, पाचकजातीया, पाचकदेशीया, पञ्चमजातीया, षष्ठदेशीया, दत्तजातीया, गुप्तदेशीया, माथुरजातीया, स्रौग्घ्नदेशीया, दार्घकेशजातीया, चन्द्रमुखदेशीया, कठजातीया, बह, वृचदेशीया, वातण्ड्यजातीया, गार्ग्यदेशीया, कापोतपाक्यजातीया, कौञ्जायन्यदेशीया, अङ्गजातीया, गर्गदेशीया, ऐडविड - 25 जातीया, पार्थदेशीया, दारदजातीया, प्रशिजदेशीया, परतः स्त्रीत्येव ? कुटीजातीया, द्रुणीदेशीया । अनूङित्येव ? करभोरूजातीया, मद्रबाहू
देशीया ।। ५८ ।।