________________
२४ ]
बृहद्वृत्ति - लवन्याससंवलिते
[पा० १. सू० २७.]
यदाऽनुकार्यानुकरणयोः
स्याद्वादाश्रयणेनाभेदविवक्षा तदाऽर्थवत्त्वाभावान्न भवति नामसंज्ञा; यथा-गवित्यमाहेति ; यदा तु भेदविवक्षा तदाऽनुकार्येणार्थेनार्थवत्त्वाद् भवत्येव-पचतिमाह, चः समुच्चये, “नेर्विश:" [३. ३. २४.] “परावेर्जेः” [३. ३. २८ . ] इत्यादि । नामप्रदेशाः - " नाम सिदय्व्यञ्जने” [१. १. २१.] इत्यादयः ।। २७ ।।
T
5
विशिष्टोऽर्थोऽनेनेति बाहुलकात् करणेऽपि
10
न्या० स० - श्रधातु० - उच्यते घ्यरिण वाक्यम्, कर्मरिण तु प्रतीतमेव । अर्थो द्वधा - अभिधेयो द्योत्यश्व । तत्राभिवेयः स्वार्थादिभेदात् पञ्चधा, द्योत्यश्व समुच्चयादिरिति । यद्वा चकारादिना द्योत्स्यापि समुच्चयादेः समासादिनाऽभिधीयमानत्वादभिवेयत्वमस्तीत्याह - द्योत्यश्चेत्यादि - अभिवेय इति शेषः, न केवलं स्वार्थादिरभिवेयो द्योत्यश्च समुच्चयादिरभिवेय इति चार्थ: 110 समुच्चयादिरिति प्रादिपदाद् 'वा विकल्पादी' 'एवोऽवधारणे' इत्यादि बोध्यम् । तथा द्योतकानां विशेषणं नास्ति, यथा- 'घटश्च भव्यम्' इति । तथा चादीनां स्वार्थोऽपि द्योत्यतया न वाचकतयेत्ये कोऽप्यभिधेयो नास्ति । स्वरादीनां तु लिङ्गसंख्ये न स्तः । ननु 'श्रहन्' इत्यत्र विभक्त्यन्तद्वारेणैव नामत्वं न भविष्यति किं धातुवर्जनेन ? सत्यम् - तथापि 'हन्ति' इत्यत्र धातुवर्जनाभावे विभक्त ेः प्राक्तनस्य 'हन्' इत्यस्य नामत्वे " नाम सि० " 15
१. १. २१. ] इति व्यञ्जनद्वारा पदत्वे च नलोपः स्यादिति धातुवर्जनमिति । अथ 'वृक्षान्' इत्यत्र नकारविधानसामर्थ्यादेव नलुग् न भविष्यति किं विभक्तिवर्जनेनेति ? सत्यम्-‘कांस्कान्' इत्यादी "शसोडता०" [ १. ४. ४९ ] इति नविधानं चरितार्थमित्यत्र नलोपः स्याद् इति । ननु 'साधुर्घमं ब्रूते' इत्यत्र विभक्त्यन्तत्वादेव नामत्वं न भविष्यति किं वाक्यवर्जनेन ? सत्यम् - " प्रत्ययः प्रकृत्यादेः " [ ७. ४. ११५. ] इति परिभाषया 20 ब्रू धातोरेव विभक्त्यन्तत्वं न तु समग्रवाक्यस्य ततो वाक्यस्य नामत्वे साधुर्धर्मं ब्रूते इत्येवंरूपाद् वाक्याद् विभक्तावनिष्टरूप प्रसङ्ग इति । सपा सादेभवत्येवेति अन्यथा ह्यर्थवच्छ्रब्दरूपस्य नामत्वे विधीयमानेऽर्थवत्समुदायरूपस्य वाक्यस्य प्रसङ्ग एव नास्ति किं वाक्यवर्जनेन ? ततश्च तदेव वाक्यवर्जनं बोधयति - समासादे: समुदायस्य भवत्येवेति । ननु
धातु - विभक्तीत्यत्र पर्युदासाश्रयणादर्थवत एव नामत्वं भविष्यति नार्थोऽर्थवदित्यनेन, 25 सत्यम् - प्रर्थवदिति संज्ञिनिर्द्देशार्थम् । पर्युदासाऽऽश्रयणे हि केन धर्मेण सादृश्यमाश्रीयत इत्यप्रतिपत्तिः स्यात, ततश्चानर्थकानामपि धर्मान्तरेण सदृशत्वे नामसंज्ञाप्रसङ्ग इत्याहअर्थवदिति । व्युत्पत्तिपक्षाऽऽश्रयणे 'वन' इत्यादेरखण्डस्यैवार्थवत्त्वं न तु तदवयवस्य 'वन्' इत्यादेर्नान्तस्येति; व्युत्पत्तिपक्षे तु धात्वर्थेनार्थवत्तायामपि धातुद्वारेणैव वर्जनसिद्धिरिति । ननु 'गौः' इति वक्तव्ये शक्तिवैकल्याद् 'गो' इति केनचिदुक्तम्, तत्समीपवर्ती 30 तदुक्तमपरेण पृष्टः सन्ननुकरोति तदा तदनुकरणस्य नामसंज्ञा स्याद् वा नवेत्याहयदेत्यादि । अनुकार्येणेति-वर्णावलीरूपेणेत्यर्थः ।। २७ ।।