________________
[पा० १. सू० १४७-१४६.] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ५३३
वान्तिके ॥३. १. १४७ ॥
वर्तिपदार्थानां संख्यानस्यान्तिके समीपे गम्यमाने द्वन्द्व एकार्थो वा भवति । उपगता दश यस्य येषां वा उपदशं गोमहिषम्, उपदशा गोमहिषाः, उपदशाय गोमहिषाय, उपदशेभ्यो गोमहिषेभ्यः, द्वन्द्वार्थस्यैकत्वात्तदनुप्रयोगस्यापि बहुव्रीहेरेकवचनान्तत्वम् । यदा तु दशानां समीपमुपदशमित्य- 5 व्ययीभावस्तदोपदशं गोमहिषायेति भवति ।। १४७ ।।
__ न्या० स०--वान्तिके० । अन्तिके समीप इति अन्तिकशब्दस्य समीपार्थत्वात् समीपस्य समीपिसापेक्षत्वात् संख्यानमेव विज्ञायत इति । उपदशं गोमहिषमिति यद्यप्युपदशं गोमहिषमित्येकवद्भावे समाहारस्य द्वंद्वाभिधेयस्यैकत्वात् साक्षात् तत्संख्यानं नास्ति तथापि तदवयवद्वारेण भवतीति ।। ३.१.१४७॥
10
प्रथमोक्तं प्राक ॥ ३. १. १४८ ॥
अत्र समासप्रकरणे प्रथमया प्रथमान्तेन पदेन यदुक्त निर्दिष्टं तत्प्राक् पूर्वं निपतति । आसन्नदशाः, सप्तगङ्गम्, ऊरीकृत्य, कष्टश्रितः, शकुलाखण्डः, यूपदारु, वृकभयम्, राजपुरुषः, अक्षशौण्डः, नीलोत्पलम्, पञ्चाम्राः । वाक्यवत्समासेऽप्यनियमः स्यादिति वचनम् ।। १४८ ।।
15
राजदन्तादिषु ॥ ३. १. १४६ ॥
राजदन्त इत्यादिषु समासेष्वप्राप्तपूर्वनिपातं प्राक् निपतति । दन्तानां राजा राजदन्तः-'षष्ठी' [३. १. ७६.] इति प्रथमोक्तत्वेन दन्तशब्दस्य पूर्वनिपाते प्राप्ते राजशब्दस्यानेन पूर्वनिपातः, पूर्वं वासितं पश्चाल्लिप्तं लिप्तवासितम्-अत्र 'पूर्वकाल' [३. १. ६७.] इति प्रथमोक्तत्वेन वासितस्य20 पूर्वनिपाते प्राप्ते लिप्तस्य पूर्वनिपातः, एवं सिक्तसंमृष्टं, भृष्टलुञ्चितं, नग्नमुषितम्, अवक्लिन्नपक्वम्, अर्पितोतम्, उप्तगाढम्, ऋणेऽधमोऽधमर्णः, अत्र 'सप्तमी' [३. १. ८८.] इति प्रथमोक्तत्वेन ऋणस्य पूर्वनिपाते प्राप्ते अधमस्य पूर्वनिपातः, एवमुत्तमर्णः, उलूखलं च मुशलं च उलूखलमुशले-अत्र मुशलशब्दस्याल्पस्वरत्वात् पूर्वनिपाते प्राप्ते उलूखलशब्दस्यानेन 25