________________
४६४ ]
[ पा० १ सू० १०७-१०८. ]
क्लिशितमक्लिष्टम्, पवितमपूतम्, इङ्ग्रहरणमर्थभेदाहेतोर्विकारस्य उपलक्षणम्,– तेन शिताशितम्, छिताच्छातमित्यादि न भवति । कथं विन्नावित्तं त्राणात्रातम् ? 'क्तादेशोऽषि' [ २. १. ६१. ] इति परे समासे नत्वस्यासत्त्वाद्भविष्यति । सेडिति किम् ? कृताकृतम् । शाताशातम्, छाताच्छातम् । अनिटेति किम् ? अशितानशितेन जीवति, - शिताशितम्, 5 छिताच्छितम् ।। १०६ ।।
बृहद्वृत्ति-लघुन्याससंवलिते
न्या० स० - - सेड़ना० । उपलक्षरणमिति तेन सविकारमविकारेण न समस्यते इत्यपि सिद्धम् । कथं विन्नावित्तमिति ? - नन्वत्र विकारौ शब्दसादृश्यासादृश्यकृती नान्यकार्यापेक्षा इत्यत्राऽपि निषधः प्राप्नोतीत्याशङ्का ।। ३. १. १०६ ।।
सन्महत्परमोत्तमोत्कृष्टं पूजायाम् ॥ ३. १. १०७ ।। 10
सदादीनि नामान्येकार्थानि पूजायां गम्यमानायां सामर्थ्यात्पूज्यमानवचनैर्नामभिः सह समस्यन्ते, स च समासस्तत्पुरुषसंज्ञः कर्मधारयसंज्ञश्च भवति । संश्चासौ पुरुषश्च सत्पुरुषः, एवं महापुरुषः, परमपुरुषः, उत्तमपुरुषः, उत्कृष्टपुरुषः । पूजायामिति किम् ? सन् घटः विद्यमान इत्यर्थः, उत्कृष्टो गौः कर्दमादुदृत इत्यर्थः । कथं महाजनः महोदधिः इति वैपुल्यं ह्यत्र गम्यते 15 न पूजा ? बहुलाधिकाराद्भविष्यति पूजायामेवेति नियमार्थं वचनम् पूर्वनिपातव्यवस्थार्थं च, तेन सच्छुक्ल इत्यादौ खञ्जकुटादिवदनियमेन पूर्वनिपातो न भवति । परमजरन् महावीरः परममहान् इत्यादौ च स्पर्धे परमिति यथापरं पूर्वनिपातश्च सिद्धो भवति ।। १०७ ।।
न्या० स० -- सन्महत्० । परमपुरुष इति अत्र परमं चासौ न चेति कृते अपरम-20 मेव भवति, यतोऽयं योगो 'विशेषरणं विशेष्येण ' [ ३. १. १६. ] इति सूत्रस्य बाधक : अतो नत्रा सह सर्वोऽपि कर्म्मधारयो न । उत्तमपुरुष इति उत्ताम्यतीति अचि उत्तम । उगतार्थवृत्तेरुच्छब्दाद् वा तमप् । द्रव्यप्रकर्षवृत्तित्वाच्चामभावः ।। ३. १. १०७ ।।
वृन्दारकनागकुञ्जरैः ॥ ३. १. १०८ ॥
पूजायां गम्यमानायामेभिर्नामभिः सामर्थ्यात्पूज्यमानवचनं नामैकार्थं 25 समस्यते, स च समासस्तत्पुरुषसंज्ञः कर्मधारयसंज्ञश्च भवति । वृन्दारक इव