________________
1
[ पा० १. सू० 28. ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ४८७
‘विशेषणं विशेष्येण' - [ ३.१.६६ . ] इत्येव सिद्धे नियमार्थं वचनम् । दिगधिकं संज्ञातद्धितोत्तरपद एव समस्यते नान्यत्रेति । दक्षिणा गावोऽस्य सन्ति दक्षिणगुरित्यादौ सन्तीत्येतदनपेक्षयान्तरङ्गत्वेन बहुव्रीहिभावादुक्तार्थत्वेन मत्वर्थीयतद्धितविषयभाव एव नास्तीत्यनेन समासो न भवति ।। ६८ ।।
न्या० स० -- दिगधि० । दिग्वाचीति एतदपि च न दिश्येव वर्त्तमानमपि तु 5 तद्वारेण जनपदादौ च वस्त्वन्तर इति अर्थप्रधानो निर्देशः । संज्ञायां तद्धिते चेति एकापि सप्तम्युत्पन्ना विषयभेदात् यथालक्ष्यं भिद्यते इति । विग्रहवाक्यमिति विभिन्न गृह्यतेऽनेनऽस्मिन् वा बाहुलकात् 'पुन्नाम्नि घः ' [ ५. ३. १३०. ] विग्रहं च तत् वाक्यं च विग्रहवाक्यम् । यद्वा विग्रहरणं 'युवर्ण' [ ५.३.२८. ] इत्यल् विग्रहस्तस्य वाक्यं । न हि तद्धिते वाक्यमस्तीति तद्धिता हि नाम्न उत्पद्यन्ते न तु समासारम्भकात् वाक्यात् ।10 पूर्वगवीप्रिय इति मतान्तरेणेदमुदाहरणं स्वमते तु प्रणाद्यन्तान्नाम्नो ङीरुक्तोऽत्र तु पूर्वगवीप्रिय इत्येवंरूपस्य नामत्वे पूर्व्वगवीत्यस्य नामत्वाभावे ङीर्न स्यात् ।। ३. १. ६८ ।।
संख्या समाहारे च विगुश्चानाम्न्ययम् ॥ ३.१.६६ ॥
अनेकस्य कथंचिदेकत्वं समाहारः । संख्यावाचि नाम परेण नाम्ना सह समस्यते, संज्ञातद्धितयोर्विषयभूतयोरुत्तरपदे परे समाहारे चाभिधेये सच 15 समासस्तत्पुरुषसंज्ञः कर्मधारयसंज्ञश्च भवति । अयमेव चानाम्नि प्रसंज्ञायां द्विगुसंज्ञश्च भवति । संज्ञायाम् - पञ्चाम्राः, दशाम्राः, पञ्चर्षयः, सप्तर्षयः, दशार्हाः, पञ्चवटाः, दशवटाः, फलित एकः पञ्चाम्रः पुष्पितौ द्वौ पञ्चाम्रौ उदितास्त्रयः सप्तर्षयः, तद्धिते-द्वयोर्मात्रोरपत्यं द्वैमातुरः पाञ्चनापितिः, पञ्चसु कपालेषु संस्कृत प्रोदनः पञ्चकपाल प्रोदनः, पञ्चभ्यो जनेभ्यो हित: 20 पञ्चजनीनः, अध्यर्धेन कंसेन क्रीतः अध्यर्धकंसः एवमध्यर्धशूर्पः, अर्धतृतीयैः शूर्पै: क्रीतः अर्धतृतीयशूर्पः, एवमर्धपञ्चमशूर्पः, उत्तरपदे पञ्च गावो धनमस्य पञ्चगवधनः, पञ्च नाव: प्रिया यस्य स पञ्चनावप्रियः, द्व े अहनी जातस्य द्वचन्हजातः, अध्यर्धा नौर्धनमस्य अध्यर्धनावधन, अर्धतृतीया नावो धनमस्य अर्धतृतीयानावधनः समाहारे, - पञ्चानां पूलानां समाहारः पञ्चपूली, 25 दशपूली, पञ्चानां राज्ञां समाहारः पञ्चराजी, दशराजी, एवं पञ्चकुमारि, दशकुमारि, अध्यर्धानां पूलानां समाहारः अध्यर्धपूली, अर्धपञ्चमपूली । समाहारे चेति किम् ? अष्टौ प्रवचनमातरः, - 'विशेषणं विशेष्येण'
,