________________
४५४ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० १. सू० ४३-४५.]
समस्यन्ते, स च समासोऽन्यो बहुव्रीह्यादिलक्षणरहितस्तत्पुरुषसंज्ञो भवति । ऊरीकृत्य, खाटकृत्य, शुक्लीकृत्य, पटापटाकृत्य, प्रकृत्य, कारिकाकृत्य, कुकुत्सितो ब्राह्मणः कुब्राह्मणः, एवं कुपुरुषः, ईषदुष्णं कोष्णं, कवोष्णं, कदुष्णम्, एवं कामधुरम् । अव्ययमित्येव कुर्विशाला-पृथिवीत्यर्थः । अन्य इति किम् ? कुत्सिताः पुरुषा यस्य स कुपुरुषकः, अत्र बहुव्रीहित्वात् कच् भवति । 5 तत्पुरुषप्रदेशाः ‘गोस्तत्पुरुषात्' [७. ३. १०५.] इत्यादयः ।। ४२ ।।
न्या० स०-गति क्वन्य० । कु इत्यव्ययमिति गतिसाहचर्यादव्ययमित्यधिकाराद् वा संभवव्यभिचारेति न्यायात् कु इत्यस्य विशेषणं न तु गतिसंज्ञानां तेषामव्यभिचारात् । कुब्राह्मण इति नित्यसमासत्वात् कुत्सितो ब्राह्मण इत्यस्वपदविग्रहः ।। ३. १. ४२ ।। । दुनिन्दाकृच्छे ॥ ३. १. ४३ ॥
- 10 दुरित्यव्ययं नाम निन्दायां कृच्छे चार्थे वर्तमानं नाम्ना नित्यं समस्यते, स च समासोऽन्यस्तत्पुरुषसंज्ञो भवति । निन्दित पुरुषः दुष्पुरुषः, कृच्छण कृतं दुष्कृतम् । अन्य इत्येव ? निन्दिताः पुरुषा यस्य स दुष्पुरुषः,-अत्रापि बहुव्रीहित्वात्कच् ।। ४३ ।। सु पूजायाम् ।। ३. १. ४४ ॥
15 ___ सु इत्यव्ययं पूजायां वर्तमानं नाम्ना नित्यं समस्यते, स च समासोऽन्यस्तत्पुरुषसंज्ञो भवति । शोभनो राजा सुराजा। अन्य इत्येव ? मद्राणां समृद्धिः सुमद्रम्,-अत्राव्ययीभावत्वादम् ।। ४४ ।।
न्या० स०--सु पूजायाम् । पूजाया अन्यत्रातिशयार्थेऽनुक्ताऽपि व्यावृत्तिद्रष्टव्या ।। ३. १. ४४ ।।
20 अतिरतिक्रमे च ॥ ३. १. ४५ ॥
अतीत्यव्ययमतिक्रमे पूजायां च वर्तमानं नाम्ना नित्यं समस्यते, स च समासोऽन्यस्तत्पुरुषसंज्ञो भवति । अतिस्तुतं भवता, अतिसिक्तं भवता,अतिक्रमेण स्तुतिसेकौ कृतावित्यर्थः, अतिस्तुत्य, अतिसिच्य, पूजायाम्-शोभनो राजा अतिराजा। बहुलाधिकारादतिक्रमे क्वचिन्न भवति-अति श्रुत्वा,25 अति सिक्त्वा ॥ ४५ ॥