________________
[पा० १. सू० ३६.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः
[ ४५१
इत्यर्थः, एवं दुभिक्षम्, अर्थाभावो धर्मिणोऽसत्त्वम्-निर्मक्षिकम्-मक्षिकोणामभाव इत्यर्थः, एवं निर्मशकम्, अमक्षिकम्, उन्मशकम्, निवातम्, अत्ययोऽतीतत्वम्-सत एवातिक्रान्तत्वम्, अतिवर्ष-वर्षाणामतीतत्वमित्यर्थः, एवमतिशीतम्, निशितम्, निहिमम्, अतृणम्, नितृणम्, असंप्रतीति वर्तमानकाले उपभोगादेः प्रतिषेधः,-अतिकम्बलं, कम्बलस्योपभोगं प्रति नायं काल इत्यर्थः, 5 एवमतितैसृकम्, अत्याम्रम्, पश्चादर्थे, अनुरथं याति-रथस्य पश्चादित्यर्थः, एवम् अनुपादातम्, क्रम-पानुपूर्व्यम्, अनुज्येष्ठं प्रविशन्तु-ज्येष्ठानुक्रमेणेत्यर्थः, एवमनुवृद्धं साधूनर्चय, ख्यातिः-शब्दप्रथा, इतिभद्रबाहु, तद्भद्रबाहु, अहोभद्रबाहु, भद्रबाहुशब्दो लोके प्रकाशत इत्यर्थः, युगपदेककालार्थः-सचक्रं धेहि-चक्रेण सहैककालं चक्राणि वा युगपद्धहीत्यर्थः, एवं सधुरं प्राजः, सदृगर्थे-सव्रतम्-10 व्रतस्य सदृशमित्यर्थः, एवं सशीलम्, सकिखि, सदेवदत्तम्,-अव्ययीभावे सहस्य सभावः । संपत् सिद्धिः-सब्रह्म साधूनां-संपन्न ब्रह्मत्यर्थः, एवं सवृत्तं मुनीनाम्, सक्षत्रमिक्ष्वाकूणाम्-साकल्यमशेषता--सतृणमभ्यवहरति--न किंचित् त्यजतीत्यर्थः, एवं सतुषम्, अन्त:-समाप्ति:-सपिण्डैषणमधीते-पिण्डैषणापर्यन्तमधीत इत्यर्थः, एवं सषड्जीवनिकायमधीते,-अत्र समाप्तिरसकलेऽप्यध्ययने। प्रतीयत इति साकल्ये अनन्तर्भावः । पूर्वपदार्थ इत्येव ? समृद्धा मद्राःसुमद्राः । अव्ययमिति किम् ? समीपं कुम्भस्य ।। ३६ ।।
न्या० स०--विभक्तिसमीप० । अव्ययं नाम इति अत्र नाम नाम्नेति समुदायः संज्ञो समास इति संज्ञा, समासः संज्ञी अव्ययीभाव इति संजा एतावती पदयोजना। समस्यत इति अन्वर्थरूपत्वं समाससंज्ञायाः प्रदश्याव्ययीभावसंज्ञो भवतीत्युपसंहरतीति 120 अधिस्त्रीति अत्राधिशब्दस्य क्लुप्तानेकार्थवृत्तेराधाररूपविभक्त्यर्थवृत्तित्वं प्रकाशयितुमुक्ताधारस्याऽपि सप्तम्यन्तेन स्त्रीशब्देन समासः । ऋद्ध्यभाव इति ऋद्धरुत्तरपदार्थधर्मस्याभावो न तूत्तरपदार्थस्येव धम्मिण इत्यर्थाभावाद् भिद्यते, तत्र हि धर्मिण एवाभावः यवनानां ऋद्ध्यभावः इत्यत्र 'राष्ट्रक्षत्रियात्' [३. १. ११४.] इत्यत्रो 'बहुष्वस्त्रियाम्' [६. १. १२४.] इति लोपे।
धर्मिणोऽसत्त्वमिति धम्मिणोऽनुत्पत्तिरेव न तु सतोऽभाव इत्यर्थाभावोऽत्ययाद् विशिष्यते, अत्ययो हि सतोऽतिक्रान्तकालसंबन्धिनी सत्त्वोच्यते । उपभोगादेः प्रतिषेध इति न तु वस्तुन इति तदऽभावाद्भिद्यते न सांप्रतिकवस्त्वभाव इत्यर्थाभावाद्भिद्यते । ननु च वर्षाणामत्ययो नाम वर्षाणामभाव एव प्रध्वंसाभावो हि सः, तत्रार्थाभाव इत्येव सिद्धे
25