________________
४५० ]
बृहवृत्ति-लघुन्याससंवलिते
[पा० १. सू० ३६.]
घृतं पञ्चभिरक्षैः शलाकाभिर्वा भवति, तत्र यदा सर्वे उत्ताना अवाञ्चो वा पतन्ति तदा पातयितुर्जयः अन्यथापाते पराजयः । एकेनाक्षेण शलाकया वा न तथावृत्तम् यथा पूर्वं जये एकपरि, द्विपरि, त्रिपरि, परमेण चतुष्परि, पञ्चसु त्वेकरूपेषु जय एव भवति । अक्षेणेदं न तथा वृत्तम् यथा पूर्वं जये अक्षपरि, शलाकापरि । संख्यादीति किम् ? पाशकेन न तथा वृत्तम् । 5 परिणेति किम् ? अक्षेण परिवृत्तम् । द्यूत इति किम् ? रथस्याक्षेण न तथा वृत्तम् । अन्यथावृत्ताविति किम् ? पञ्चपरीति माभूत् । केचित् समविषमद्यूते सममित्युक्ते यदा विषमं भवति, तदा अक्षपरि शलाकापरीति प्रयुज्यत इत्याहुः । अन्ये पूर्व पदमाहूतं तच्च पतितमिष्टं सिद्धं पुनस्तदाहृतं यदा न पतति, तदायं प्रयोगोऽक्षपरि शलाकापरीत्याहुः ।। ३८ ।।
10
न्या० स०-संख्याक्षशलाकं० । ननु 'नाम नाम्नैकार्थ्य' [३. १. १८.] इत्यतः सत्रात ऐकाक्षं सतीत्यनवत्तंते, तत ऐकायें सति समासः ऐकायं च ऐकपद्यं तच्च समासे सति भवति, तत इतरेतराश्रयदोषे समासः कथम् ? उच्यते, यत्र यत्र येन सूत्रेण समासः कत्तु मिष्यते तत्र तत्र तस्मादेव ऐकायं प्रथमं ज्ञातव्यम् ततः समासः, अन्यथा हि सर्वाण्यपि सूत्राणि निरर्थकतां भजेरन् इति हि न्यासविदः । षडादिभि ताभावात्15 षट्परीत्यादि न भवति, उत्कर्षतस्तु चतुष्परीत्येव नित्यसमासोऽयमिति परिप्रयोगो वाक्ये नाऽक थि, किंतु न तथा वृत्तमिति पर्यायः । समविषमवू ते इति एकिकाद्विकारूपे । अन्ये पूर्वमिति तस्मिन्ने व द्यूते ।। ३. १. ३८ ।।
विभक्तिसमीपसमुद्धिव्यद्ध्यर्थाभावात्ययासंप्रति. पश्चात्कारयातियुगपत्सहसंपत्साकल्यान्तेऽव्ययम् 20
॥३. १. ३६ ।।
विभक्त्यादिष्वर्थेषु वर्तमानमव्ययं नाम नाम्ना सहैकार्थ्ये सति पूर्वपदार्थेऽभिधेये नित्यं समस्यते, स च समासोऽव्ययीभावसंज्ञो भवति । विभक्तिविभक्त्यर्थः कारकम, अधिस्त्रि निधेहि-स्त्रीषु निधेहीत्यर्थः, एवमधिकुमारि, समीपे-उपकुम्भं, कुम्भस्य समीप इत्यर्थः, एवमुपाग्नि, उपशरदम्,25 ऋद्धराधिक्यं समृद्धिः-सुमद्रम्, मद्राणां समृद्धिरित्यर्थः, एवं सुमगधम्, सुभिक्षम्, विगता ऋद्धिः व्यृद्धि:-ऋद्धयभावः, दुर्यवनं-यवनानामृद्धयभाव