________________
४४८ ]
बृहद्वृत्ति - लघुन्याससंवलिते
[ पा० १. सू० ३६. ]
कृतम्, खलेयवे कृतम् इत्यादयः प्रयोगा साधवः, द्वितीयादिविभक्त्यन्ता एते साधव इत्यन्ये । नाभेरधः प्रधोनाभम् निपातनादत् समासान्तः, पूर्वपदार्थप्रधानोऽयम् । तथा - समत्वं भूमेः समभूमि, एवं समपदाति, पक्षे पूर्वपदस्य मान्तत्वमपि निपात्यते - समभूमि, समंपदाति । एतौ देशकालभावेष्वन्यपदार्थेष्वित्यन्ये, उत्तरपदार्थप्राधान्ये तु समा भूमिः समभूमिः 5 समपदातिरिति कर्मधारय एव । तथा - शोभनत्वं समस्य शोभनत्वं समाया: शोभना समा यत्र सुषमम्, एवं विषमम् निष्षमं, दुष्षमम्, अपरसमम् । उत्तरपदार्थप्राधान्ये तु तत्पुरुष एव । शोभना समा सुषमा । शोभने समे समशब्देनाव्ययीभाव इत्यन्ये, तथा - समाया श्रायतीत्वम् प्रायती समा यत्र यती समेति वा प्रायतीसमम्, एवं पापसमम्, पुण्यसमम्, समशब्देन 10 तृतीयासमास इत्यन्ये । आयत्या समम् - प्रायतीसमम् । एवं पापसमम्, पुण्यसमम्, तथा प्रकृष्टत्वं चाह्नः प्राह रणम् निपातनादह्लादेशः, एवं प्ररथम्, प्रमृगम्, प्रदक्षिणम् । कालभावलक्षणेऽन्यपदार्थेऽपीत्यन्ये,–प्रक्रान्तमहरस्मिन् प्राह ्मणम्, प्रगता रथा अस्मिन् प्ररथम्, प्रनष्टा मृगा अस्मिन् प्रमृगम्, प्रकृता दक्षिणा अस्मिन् प्रदक्षिणम्, अन्यत्र प्रगता मृगा अस्मात् प्रमृगो देश:, 15 देशेऽप्यन्ये । उत्तरपदार्थप्राधान्ये तु तत्पुरुष एव, प्राह णः, प्ररथः, प्रमृगः, प्रदक्षिणा । तथैकत्वमन्तस्य एकोऽन्त इति वा एकान्तम्, देशेऽन्यपदार्थेऽपीत्यन्ये । एवं प्रान्तं समपक्षम्, समानतीर्थम्, समानतीरम्, तथा - संप्रत्यसंप्रत्यप्रदक्षिणानि यथासंख्यं वर्तमानावर्तमानवामेषु । तथा-युद्धे इजन्तं च केशाकेशि, दण्डादण्ड, द्विदण्ड, द्विमुसलि । 'तिष्ठद्गु' - इत्यत्रेतिशब्दः स्वरूपपरिग्रहार्थ : 120 तेनेह समासान्तरं न भवति - परमं तिष्ठद्गु तिष्ठद्गु प्रियमस्येति वाक्यमेव भवति । अत एव प्रदक्षिणसंप्रतिभ्यां सह नञ्समासेन सिद्धावप्रदक्षिणासंप्रत्योः पाठः । इजन्तस्य च तिष्ठद्ग्वादिपाठ: 'इच् युद्धे' [७. ३. ७४.] इत्यनेनेजन्तस्य समासान्तरप्रतिषेधार्थः, द्विदण्डयादेरव्ययीभावार्थश्च । अन्ये तु परपदेनैव समासं प्रतिषेधन्ति तन्मते - परमतिष्ठद्गु, प्रातिष्ठद्गु, जपन् 25 सन्ध्यामित्यादयोऽपि साधवः । तिष्ठद्ग्वादिराकृतिगणः - तेन प्रसव्यम्, अपसव्यम्, यत्प्रभृति, तत्प्रभृति, इतः प्रभृति इत्यादि सिद्धम् ।। ३६ ।।
.