________________
[पा० १. सू० ३५-३६.] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः
आयामो लक्ष्यते, एवमनुयमुनं मथुरा । विद्योतते लक्षणेनेत्येव
विद्युत् ।
माभूत् ।। ३४ ।।
[ ४४७
दैर्ध्य इति किम् ? वृक्षमनु लक्ष्येण वाराणस्यादिना
न्या० स० – दैर्घ्येऽनुः । वृक्षमनुविद्योतत इति । अत्र वृक्षो विद्योतनस्य लक्षणत्वेन विवक्ष्यते न दैर्घ्यस्येति ।। ३. १. ३४ ।।
5
समीपे ॥ ३.१. ३५ ॥
अनु इत्येतन्नाम समीपेऽर्थे वर्तमानमर्थात् समीपिवाचिना सहैकार्थ्य सति पूर्वपदार्थेऽभिधेये समस्यते, स च समासोऽव्ययीभावसंज्ञः । अनु वनस्य अनुवनमशनिर्गता, अनुनृपं पिशुना: अनोरव्ययत्वात् 'विभक्तिसमीप'[ ३. १. ३६. ] इत्यादिनैव समासे सिद्धे विकल्पार्थम्, तेन वाक्यमपि भवति 10 पृथग्वचनं लक्षणेनेत्यस्य निवृत्त्यर्थम् ।। ३५ ।।
न्या० स० - समीपे । समोपशब्दोऽव्युत्पन्नः वर्णानुपूर्वीनिर्ज्ञानार्थं च संगता आपो यत्रेति । अनुवनमश निर्गतेति समासाच्चात्र गमन क्रियाकर्मभूतसामीप्याभिधायकात् प्रमोऽम्भावः, सप्तमी वा । निवृत्त्यर्थमिति पूर्वे तु प्रत्राऽपि लक्षणेनेत्यनुवर्त्तयन्ति, यदुत्पलः । अनुशब्दः समीपसमोपिनोर्लक्ष्यलक्षण संबन्ध द्योतकस्तथा हि वनसामीप्यगताया अशनेर्वनं 15 लक्षणम् ।। ३. १. ३५ ।।
तिष्ठदिग्वत्यादयः ॥। ३. १. ३६ ॥
तिष्ठद्गुप्रभृतयः समासशब्दा अव्ययीभावसंज्ञा भवन्ति, यथायोगमन्यपदार्थे पूर्वपदार्थे चाभिधेये । तिष्ठन्ति गावो यस्मिन् काले गर्भग्रहणाय दोहाय वाहाय वत्सेभ्यो निवासाय जलपानार्थं वा स कालस्तिष्ठद्गु, वहन्ति 20 गावो यस्मिन् काले स कालो वहद्गु, आयन्ति गावो यस्मिन् स काल आयतीगवम्,, - अत्र पूर्वपदस्य पुंवद्भावाभावः समासान्तश्च निपातनात् एतेऽन्यपदार्थे काले । तथा-खले यवा यस्मिन् स कालः खलेयवम्, खलेबुसम्, निपातनात्सप्तम्या अलुप् लूनयवम्, लूयमानयवम्, पूनयवम्, पूयमानयवम्, संहृतयवम्, संह्रियमाणयवम्, संहृतबुसम्, संह्रियमाण बुसम्, - एते प्रथमैक-25 वचनान्ता एवान्यपदार्थे काले । देशेऽपीत्यन्ये-तेन खलेयवं पश्य, खलेयवेन