________________
[पा० १. सू० २.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः
[ ४२१
द्वावानयेत्यपूपावित्यादौ द्विवचनादवगतेऽपि द्वित्वे द्विशब्दस्य प्रयोग इति । समासाभावादिति । गतिसंज्ञाया अभावात् 'गतिक्वन्य०' [३. १. ४२.] इत्यनेन । 'अतिरतिक्रमे च' [ ३. १. ४५. ] इत्यपि बाहुलकान्न । वृक्षवृक्षमऽभिसिञ्चतीति-वीप्स्यार्थेनाऽभिना योगात् 'लक्षणवीप्स्य.' [ २. २. ३६. ] इति द्वितोया। धात्वर्थ बाधत इति, प्रादेरव्ययत्वादनेकार्थतां दर्शयति, धातुपाठ योऽर्थस्तदपेक्षया धात्वर्थं बाधते इत्युक्त, अन्यथा- 5 ऽनेकार्थत्वाद् धातूनामयमर्थो न स्यात् । अतिशय्येति-जित्वा इत्यर्थः । प्रतिष्ठते इत्यादि-अत्र तिष्ठत्यादयोश्चत्वारो गतिनिवृत्त्यादिलक्षणं प्रसिद्धमर्थं परित्यज्य तत्प्रतिपक्षभूते प्रस्थानविस्मरणप्रवासप्रलयलक्षणे वर्तन्ते, तदुत्तरौ त्वर्थान्तरमात्रे पालने इति । प्राचामतीति इदं मतान्तरेणोक्त, स्वमते तु बाधा धात्वर्थस्य । अभ्यन्तरीकृत्येति-बुद्धिस्थी कृत्येत्यर्थः । यस्माद्विशिष्टव क्रियेति । क्रियायाः क्षणिकत्वात्, सामान्यक्रियाया10 उत्पत्त्यनन्तरमेव विनाशादुपसर्गयोगे न स्याद् विशिष्टत्वमित्यर्थः ।
अन्तरङ्गत्वादेत्वदीर्घत्वयोरिति-संपन्नकारणत्वादेत्वदीर्घत्वयोरन्तरङ्गत्वं तागमस्य तु संपत्स्यमानकारणत्वाद् बहिरङ्गत्वम्, कृते च यबादेशे एकपदत्वात्तागमस्यैवान्तरङ्गत्वम्। 'व्यञ्जनस्यानादेलुक' [४. १. ४४.] इतीति-उभयो: स्थाने निष्पन्नत्वात् यकारवकारयोर्धातुव्यपदेशात् पुनरपि 'व्यञ्जनस्यानादेर्लुक्' [४. १. ४४.] भवति ।15 तस्याधातुत्वादिति सन्नादेः प्रत्ययस्य क्रियार्थत्वेऽपि न धातुत्वं भ्वादिसाहचर्यात् भ्वादयोऽप्रत्यया एव घातवोऽन्येऽपि तथा। अमनो मनः सुभवति दुर्भवति अभिभवतीति वाक्यं कर्त्तव्यं 'व्यर्थे भृशादे: स्तोः' [३. ४. २६.] क्यङ सलोपश्च सुशब्दस्य भवतिना संबन्ध इति, यदा तु असुमना: सुमना इति मनसा संबन्धस्तदा सुशब्दस्य प्राक्त्वं सिद्धमेव । ननु सुकटंकराणि वीरणानि, दुष्कटंकराणि वीरणानीत्यत्र गतिसंज्ञकस्य सुशब्दस्य धातो:20 प्राक् प्रयोगः प्राप्नोति ? नैवम्, 'दुःस्वीषतः कृच्छ्राकृच्छ्रार्थात् खल्' [५.३.१३६.] 'व्यर्थे काप्याभूकृगः' [५. ३. १४०.] इत्यत्र च खित्करणात्, तस्य ह्य तत् प्रयोजनं खिति मोऽन्तो यथा स्यात्, यदि च सुशब्दस्य प्राग् धातोः प्रयोगः स्यात्तदा खित्करणमनर्थकं स्यादिति, सुशब्दादिना कटादेर्व्यवधानात्, सुशब्दात्त्वव्ययत्वान्न भवति ।। ३. १. १॥
ऊर्याद्यनुकरणविडाचश्च गतिः ॥ ३. १. २॥ 25
ऊर्यादय, अनुकरणानि, च्व्यन्ता, डाजन्ताश्च शब्दा, उपसर्गाश्च धातोः संबन्धिनो गतिसंज्ञा भवन्ति, तस्माच्च धातोः प्रागेव प्रयुज्यन्ते । ऊर्यादि:-ऊरीकृत्य, उररीकृत्य, ऊरीकृतम्, उररीकृतम्। अनुकरण
खाटकृत्य, फूत्कृत्य, कथं खाडिति कृत्वा निरष्ठीवदिति ?-इति शब्देन - व्यवधानान्न भवति । च्व्यन्तः-शुक्लीकृत्य, घटीकृत्य । डाजन्त-पटपटाकृत्य,30
सपत्राकृत्य । उपसर्गः-प्रकृत्य, पराकृत्य, प्रकृतम्, पराकृतम् । ऊरी, उररी,