________________
[पा० ४. सू० ८५-८७.] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ ४०१
मात-मातु-मातुके वा ॥ २. ४. ८५ ॥
मुख्य आबन्तः ष्यो मातादिषु केवलेषु परेषु बहुव्रीहौ समासे ईज् वा भवति । कारीषगन्ध्या माता यस्य स कारीषगन्धीमातः कारीषगन्ध्यामातः, परमकारीषगन्धीमातः, परमकारीषगन्ध्यामातः; कारीषगन्ध्या माता यस्य स कारीषगन्धीमाता, कारीषगन्ध्यामाता कारीषगन्धीमातृकः, कारीष- 5 गन्ध्यामातृकः; मातेति निर्देशाद् मातृशब्दस्य पुत्रप्रशंसामन्त्र्यमन्तरेणापि पक्षे मातादेशः, अन्यथा मातृशब्देनैव गतत्वाद् मातशब्दोपादानमनर्थकं स्यात् । मातृ-मातृकशब्दयोश्च भेदेनोपादानादृदन्तलक्षणः कच् प्रत्ययोऽपि विकल्प्यते ।। ८५ ।।
अस्य व्यां लक् ॥ २. ४. ८६ ॥
10 ङीप्रत्यये परे पूर्वस्याकारस्य लुग् भवति । कुरुचरी, मद्रचरी । अस्येति किम् ? दण्डिनी, की ।। ८६ ।।
न्या० स०--अस्य ड्याम् । ईजाधिकारे समानदीर्घत्वेनैव प्रयोगजातं सेत्स्यति, कि लुको ग्रहणेन ? सत्यम्-यदा पञ्चभिः कुमारीभिः क्रीत इति इकरणो लूपि उभयो: स्थाने०* इति न्यायादीचोऽपि ङीव्यपदेशे डीनिवृत्तौ व्यञ्जनान्तता, ईव्यपदेशे तु15 इकारान्तता, [तदा] मा भूदिति लुक्ग्रहणम् ।। २. ४. ८६ ॥
मत्स्य
स्य
यः ।। २. ४. ८७ ॥
20
मत्स्यशब्दसंबन्धिनो यकारस्य यां लुग भवति । मत्सी। कथं मत्स्यो नाम कश्चित् तस्यापत्यं स्त्रीति इञ् ङी-मात्सी? ङीनिमित्तादेशस्यापि ङीग्रहणेन ग्रहणात् ।। ८७ ।।
न्या० स०--मत्स्यस्य यः। मत्सीति-ननु ङ्यामिति “सप्तम्या निर्दिष्टे पूर्वस्य" [७. ४. १०५. ] तच्चानन्तरस्येति न्यायान्मत्सीत्यत्र "स्वरस्य परे प्राग्विधौ" [७. ४. ११०.] इत्यकारलुचः स्थानिवद्भावाद् या निमित्ते यकारासंभवात् कथं लुगिति, नैवम्-वचनादेकेन वर्णेन व्यवधानमाश्रीयते । ननु भवेत्वेवं परं मत्स्यस्येयं “तस्येदम्" [६. ३. १६०.] इत्यणि मस्त्याकारलोपे अरणन्तत्वाद् ड्याम् "अस्य ड्याम्०"25 [२. ४. ८६. ] इत्यणोऽकारलोपे द्वयोरकारयोः स्थानिवद्भावाद् मात्सीत्यत्र यलुक्न