________________
४०० ]
बृहत्वृत्ति-लघुन्याससंवलिते
[पा० ४. सू० ८४.]
ईच् भवति, चकारो "वेदूतो०" [२. ४. ६८.] इत्यादौ विशेषणार्थः ।' कारीषगन्ध्यायाः पुत्रः--कारीषगन्धीपुत्रः, एवं--कारीषगन्धीपतिः; कौमुदगन्धीपुत्रः, कौमुदगन्धीपतिः; परमकारीषगन्धीपुत्रः, परमकारीषगन्धीपतिः । ष्येति किम् ? गौकक्ष्यापुत्रः, इभ्यापुत्रः, क्षत्रियापुत्रः। पुत्र-पत्योरिति किम् ? कारीषगन्ध्याकुलम् । केवलयोरिति किम् ? कारोषगन्ध्यापुत्रकुलम्, कारीष- 5 गन्धीपुत्रस्य कुलमिति विग्रहे तु-कारीषगन्धीपुत्रकुलमित्यपि भवति। तत्पुरुष इति किम् ? कारीषगन्ध्यापतिरस्य कारीषगन्ध्यापतिरयं ग्रामः । मुख्य इत्येव--अतिक्रान्ता कारीषगन्ध्यामतिकारीषगन्ध्या, तस्याः पुत्रोऽतिकारीषगन्ध्यापुत्रः ।। ८३ ॥
न्या० स०-ज्या पुत्र । ष्याशब्दाद् “दीर्घड्याप्०" [ १. ४. ४५. ] सूत्रत्वाद् ।0 वा सेलु प्। पुत्रपत्योरित्यत्र सौत्रनिर्देशात् "लघ्वक्षर०" [ ३. १. १६०. ] इति पतिशब्दस्य न पूर्वनिपातः । अत्र केवलग्रहणमन्तरेण ष्यान्तस्येति विधीयमाने पुत्र-पत्योस्तदादावतिप्रसङ्गः स्यात्, अयमभिप्राय:-पुत्रपत्योरित्यौपश्लेषिकेऽधिकरणे सप्तमी, उपश्लेषश्च यथा ताभ्यां केवलाभ्यां ष्यान्तस्यास्त्येवमुत्तरपदादिभूताभ्यामपीति । अथ ष्यान्तस्य पुत्रपत्योश्चाधिकरणतया तत्पुरुषस्य निर्दिश्यमानत्वात् प्रत्यासत्तेर्यस्यैव तत्पुरुषस्य15 ष्यान्तोऽवयवस्तस्यैव यौ पुत्र-पती अवयवौ, न तत्पुरुषान्तरस्य, तयोः ष्यस्य ईज् भवति, तदा तु पुत्र-पती अन्यस्यावयवी, अन्यस्य तु ष्यान्त इति ईज् न भविष्यति । एवं तर्हि तत्पुरुषेण सन्निधापितस्योत्तरपदस्य पुत्र-पतिशब्दाभ्यां विशेषणाद् विशेषणेन तदन्तविज्ञानात् पुत्र-पतिशब्दान्तयोरुत्तरपदयोरतिप्रसङ्गः स्यात्, यतो विधि-विधान-विधिभाजां संनिधाने तदन्तविधिर्भवति, तत्र विधिरीज्भावो, विधानं पुत्र-पती, विधिभाक् च ष्यान्त इति20 तदन्तग्रहणनिराकरणार्थं केवलग्रहणम् ।। २. ४. ८३ ।।
बन्धौ बहुव्रीहौ ॥ २. ४. ८४ ॥
मुख्य पाबन्तः ष्यो बन्धुशब्दे केवले परतो बहुव्रीहौ समासे ईज् भवति । कारीषगन्ध्या बन्धुरस्य-कारीषगन्धीबन्धुः, कौमुदगन्धीबन्धुः; परमकारीषगन्धीबन्धुः, परमकौमुदगन्धीबन्धुः । बन्धाविति किम् ? कारीषगन्ध्या-25 पतिमः । केवल इत्येव--कारीषगन्ध्याबन्धुकुलः; कारीषगन्धीबन्धुकुल इत्यत्र कारीषगन्धीबन्धुः कुलमस्येति विग्रहः । बहुव्रीहाविति किम् ? कारीषगन्ध्याया बन्धुः-कारीषगन्ध्याबन्धुः । मुख्य इत्येव-अतिकारीषगन्ध्या बन्धुरस्य--प्रतिकारीषगन्ध्याबन्धुः ।। ८४ ।।